________________
१२८
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम् ) स्यादेतत् समानकालयोरेव ग्राह्यग्राहकभावः। तथाहि-खहेतुभ्य एव तद् विज्ञानं विशिष्टसमानकालभाविभावग्राहकखभावम् ,भावो५ऽपि तद्ग्राह्यस्वभाव एवोत्पद्यत इति यथोक्तदोषानुपपत्तिः, न, तयोस्तादात्म्यतदुत्पत्त्यनुपपत्तेः प्रतिबन्धाभावात् । स्यादेतत् एकसामग्र्यधीनत्वादुभयोवस्तुतस्तदुत्पत्तिलक्षण एव प्रतिबन्धः। तथाहि-खकार्यसाधनप्रवृत्तग्राह्यनिमित्तखोपादानजन्यं विज्ञानम्, एवं खकार्यसाधनप्रवृत्तसमनन्तरविज्ञाननिमित्तखोपादानजन्यं च ग्राह्य
(खो० व्या०) स्यादेतत् समानकालयोरेवार्थसंवेदनयोग्राह्यग्राहकभावः । तथाहिखहेतुभ्य एंव तद् विज्ञानं-विवक्षितं विशिष्टसमानकालभाविभावग्राहकस्वभावम् , भावोऽप्यसौ विवक्षितः तग्राह्यखभाव एव-विवक्षितविज्ञानग्राह्यस्वभाव एव उत्पद्यत इति एवं यथोक्तदोषानुपपत्तिः । एतदाशय १५ आह-न तयोः-प्रस्तुतार्थसंवेदनयोः तादात्म्यतदुत्पत्त्यनुपपत्तेः कारणात्
प्रतिबन्धाभावादिति । स्यादेतत्-अथैवं मन्यसे एकसामग्यधीनत्वात् कारणात् उभयोः-अर्थ-संवेदनयोवस्तुतः-परमार्थेन तदुत्पत्तिलक्षण एवं प्रतिबन्धः। एतद्भावनायैवाह-तथाहीत्यादि । तथाहीति पूर्ववत् । खकार्यसाधन
प्रवृत्तं च तद् ग्राह्यं च तदेव निमित्तं यस्य स्वोपादानस्य विज्ञानसम्बन्धिनः २० तजन्यं विज्ञानं वर्तते । एवं खकार्यसाधनप्रवृत्तं च तत् समनन्तरवि
(विवरणम्) (१५) तादात्म्यतदुत्पत्त्यनुपपत्तेरिति । समानकालभाविनोर्हि ज्ञेय-ज्ञानयोन तदुत्पत्तिलक्षणः सम्बन्धो जाघटीति, एककालवर्तित्वेनैव परस्परमुपकार्योपकारकभावस्याभावात् । तादात्म्यं तु सुतरां न भवति, जडचिद्रूपस्वभावत्वादर्थ-संवेदनयोः । २५ अतत्सम्बन्धद्वयाभावे कथं ग्राहग्राहकभावो भवितुमर्हति वैशेषिकस्यापि मते ?। एतच्च परेण वैलक्ष्यभाषितमेव कृतं यदुत समानकालयोरेवार्थ-संवदनयोह्यग्राहकभावः । न हि तन्मतमेवंविधं समस्ति, विषयक्षणानन्तरं ज्ञानक्षणोत्पत्तिसमभ्युपगमात् ।।
(८-९) स्वकार्यसाधनप्रवृत्तग्राह्यनिमित्तस्वोपादनजन्यं विज्ञानम्। एवं स्व
१ 'पाहखभावं' इति ङ-पाठः । ५ तस्तदुत्पत्त्यनु' इति ङ-पाठः। ३ 'बन्धः तद्भावना०' इति ङ-पाठः । ४ 'काररयाभावात्' इति क-पाठः । ५'द्वपोधेि' इति क-पाठः !