________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
"
पत्तिः । संवेद्यमानादेव संवेदनाकारात् तदाकारत्वावगम इति चेत्, तथाहि न यद् यदाकारं न भवति तत् तद्ग्राहकं भवति, पीताकारमिव नीलस्य तद्राहकं चैतदिति कथं तदवगमानुपपत्तिरिति । ५ एतदप्ययुक्तम्, अविचारितरमणीयत्वात् तत्प्रत्यक्षताऽनुपपत्तेः, अनुमीयमानत्वात् न चानुमीयमानताऽपि, एवंविधाविना भावव्यवस्थाकारिणः क्षणद्वयग्राहिणो विज्ञानस्याभावात्, क्षणिकत्वविरोधात्, कारणविज्ञानबोधान्वयव्यतिरेकेण कार्यविज्ञाने तद्वैशिष्ट्यायोगात् अतिप्रसङ्गादिति ॥
अधिकारः ]
१२७
.
( स्वो० व्या० ) त्यवगमानुपपत्तिः । संवेद्यमानादेव संवेदनाकारात् तद्वतादेव तदाकारत्वावगमः-अनन्तरातीतविषयाकारत्वावगम इति चेत् एतदेव भावयति तथाहीत्यादिना । तथाहि न यद् यदाकारं न भवति संवेदनं तत् तद्ग्राहकं भवति । पीताकारमिव संवेदनं नीलस्य तद्राहकम् - अनन्तरातीतविषय- १५ ग्राहकं चैतत् - अधिकृतसंवेदनमिति एवं कथं तदवगमानुपपत्तिः - अनन्तरातीतविषयाकारत्वावगमानुपपत्तिरिति ? । नैवेत्यर्थः । अत्राह - एतदप्ययुक्तमनन्तरोदितम् । कुत इत्याह- अविचारितरमणीयत्वात् । अस्याविचारितरमणीयत्वं च तत्प्रत्यक्षतानुपपत्तेः - अनन्तरातीतविषयाकारस्य प्रत्यक्षतानुपपत्तेः । अनुपपत्तिश्च अनुमीयमानत्वात् तस्य । न चानुमीयमानताऽप्यत्र । कुत इत्याह- २० एवंविधाविनाभावव्यवस्थाकारिणः क्षणद्वयग्राहिणो विज्ञानस्याभावात् । अभावश्च क्षणिकत्वविरोधात् । तदेवं विशिष्टं तद्व्यवस्थाकारीत्यारेकानिरासायाह - कारणेत्यादि । कारण विज्ञानबोधान्वयव्यतिरेकेण कार्यविज्ञाने तदूवैशिष्ट्य / योगात् तस्य - कार्यविज्ञानस्य वैशिष्ट्यायोगात् अतिप्रसङ्गात् तद्वदपरस्यापि वैशिष्ट्यापत्तेरिति ॥
( विवरणम् )
२५
(२३) कारणविज्ञानबोधान्वयव्यतिरेकेणेति । कारणरूपं विज्ञानं तस्य बोधः- चिद्रूपता तस्यान्वयः - अनुगमस्तद्व्यतिरेकेण - तदभावेन । (यदा ) हि कारणविज्ञानस्य कार्यादिज्ञानेऽन्वयः स्यात् तदा वैशिष्यं स्यात् कार्यविज्ञानस्य । यदा त्वेकान्तक्षणिकतया निर्मूलं प्रलीने एव कारणज्ञाने कार्यस्य ज्ञानमुत्पद्यते तदा किं ३० कृतं तस्य वैशिष्ट्यं येनातीतविषयाकारगोचरमनुमानं ततो भवेदिति ॥
१ 'कारण विज्ञाने' इति क-पाठः ।