________________
१२६
अनेकान्तजयपताकाख्यं प्रकरणम् और
[षष्ठः (मूलम्) कथञ्चिदपि तुल्यकालताऽभ्युपगम्यते,तयोहेतुफलभावाभ्युपगमात्। उक्तं च-"ग्राह्यतां विदुहेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्" ५ इति । एवं च सति ग्राह्यार्थाभाव एव ग्राहकसंवेदनप्रसूतेः तदभाव. भावित्वात् कुतस्तस्य तदाहकत्वमितरस्य च तद्ग्राह्यत्वमित्यादाय युक्तिप्रदीपंतिरस्कृत्य स्वदर्शनाभिनिवेशतिमिरं निभाल्यतामेतदिति। ___ आकारार्पणक्षमत्वमपि तस्यानिश्चितमेव, न यतोऽनन्तरातीतविषयाकारमेतत् संवेदनमिति विनिश्चेतुं शक्यते, तस्याग्रहणात् ३० तदानीमसत्त्वादिति तदाकारमेतदतदाकारं न भवतीत्यवगमानुप
-
(खो० व्या०) संवेदनयोः कथञ्चिदपि तुल्यकालताऽभ्युपगम्यते परैः, तयोः ग्राह्यार्थतद्राहकसंवेदनयोहेतुफलभावाभ्युपगमात्। उक्तंच धर्मकीर्तिना ग्राह्यतां विदुरर्थस्य हेतुत्वमेव युक्तिज्ञाः-अनुमानादिविदः । किंविशिष्टं हेतुत्वमित्याह१५ ज्ञानाकारार्पणक्षममिति । एवं च सति ग्राह्याथाभाव एव वस्तुस्थित्या ग्राहकसंवेदनप्रसूतेः । किमित्यत आह-तदभावभावित्वात्-ग्राह्यार्थाभावभावित्वात् संवेदनस्य । कुतस्तस्य-संवेदनस्य तद्ग्राहकत्वं-ग्राह्यत्वेनाभिमतार्थग्राहकत्वम् । इतरस्य च-अर्थस्य तद्ग्राह्यत्वं-तदुत्तरकालभाविसंवेदनग्राह्यत्वमित्यादाय युक्तिप्रदीपं सूक्ष्माभोगहस्तेन तिरस्कृत्य खदर्शनाभिनिवेश२० तिमिरं निभाल्यतामेतत्-अनन्तरोक्तमिति ॥
उपचयमाह-आकारार्पणक्षमत्वमपि तस्य-अर्थस्य अनिश्चितमेव । कथमित्याह-न यतोऽनन्तरातीतविषयाकारमेतत् संवेदनमिति एवं विनिश्चेतुं शक्यते। कुत इत्याह-तस्य-अनन्तरातीतविषयस्य अग्रहणात् ।
अग्रहणं च तदानीं-संवेदनकाले असत्त्वाद् विषयस्य इति-एवं तदाकारम्२५ अनन्तरातीतविषयाकारम् एतत्-संवेदनमतदाकारम्-अन्याकारं न भवती
(विवरणम्) अथ मुक्तिवादे किश्चिदवचूर्ण्यते-(१५) ज्ञानाकारार्पणक्षममिति । ज्ञाने स्वाकारढौकनसहं हेतुत्वं युक्तिज्ञा विदुः॥
१ धर्मकीर्तिना। २ 'ग्राह्यथैतद्' इति ङ-पाठः । ३ 'सूक्ष्माभोगे हस्तेन' इति क-पाठः ।