SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् १२५ (मूलम् ) कमभ्युपगम्यते,न पुनः प्रतिक्षणनवरात्मापेक्षयेति। एतदप्यसारम्, विकल्पानुपपत्तेः । तथाहि-तत् कथञ्चित् प्रतिक्षणनश्वरं स्यात् सर्वथा वा ? । यदि कथञ्चिदहन्मतानुवाद एव । तथा चोक्तमहन्मता-५ नुसारिभिः "सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥” इत्यादि । अथ सर्वथा, हन्त तहाँहिकामुष्मिकसकललोकसंव्यवहाराभावप्रसङ्गः । तथाहि-प्रतिक्षणनिरन्वयनश्वरत्वे सत्यात्मादिवस्तुनो। ग्राह्यग्राहकभाव-स्मरण-प्रत्यभिज्ञान-कुतूहलविरमणादि आविद्वदअनादिप्रतीतमपि नोपपद्यते । न हि ग्राह्यार्थ-तद्राहकसंवेदनयोः (खो० व्या०) अवस्तु अनात्मकमभ्युपगम्यते, न पुनः प्रतिक्षणनवरात्मापेक्षयेति। एतदपि-परसम्मतमसारम् । कथमित्याह-विकल्पानुपपत्तेः। एनामेवाह १५ तथाहीत्यादिना । तथाहीति पूर्ववत् । तत्-वस्तु कथञ्चित्-पर्यायापेक्षया प्रतिक्षणनश्वरं स्यात् सर्वथा वा । यदि कथञ्चिदर्हन्मतानुवाद एव । एनमेवाह तथा चोक्तमित्यादिना। तथा चोक्तमहन्मतानुसारिभिः-पूर्वाचायः। किमुक्तमित्याह-सर्वव्यक्तिषु-घटाद्यासु नियतं क्षणे क्षणेऽन्यत्वम्, क्षणसम्बन्धभेदात् । अथ च न विशेषः कथञ्चित् सदादिरूपतया। भावार्थमाह-२० सत्योश्चित्यपचित्योः चित्रसहकारिसामर्थ्येन आकृतिजातिव्यवस्थानात्संस्थानसत्त्वव्यवस्थानादित्यादि । अथ सर्वधा प्रतिक्षणनश्वरं तन्न । हन्त त]हिकामुष्मिकसकललोकसंव्यवहाराभावप्रसङ्गः। एतदेव भावयति तथाहीत्यादिना । तथाहि-प्रतिक्षणनिरन्वयनश्वरत्वे सति-प्रतिक्षणं सर्वथा निरनुवृत्तिनशनशीलत्वे सति आत्मादिवस्तुनो ग्राह्यग्राहकभावश्च स्मरणं च २५ प्रत्यभिज्ञानं च कुतूहलविरमणादि चेति द्वन्द्वः, एतदाविद्वदङ्गनादिन. तीतमपि नोपपद्यते-न घटते । न हीत्यादि । न यस्मात् ग्राह्यार्थ-तद्वाहक १ 'सत्यश्चित्यत्यपवित्र्योत्पराकृति०' इति क-पाठो भ्रान्तिमूलकः । २ आर्या । ३ 'सकले लोक.' इति क-पाठः । ४ 'सम्बन्धविभेदात्' इति ङ-पाठः ।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy