________________
षष्ठोऽधिकारः।
(मूलम् ) यच्चोक्तम्-'विरोधिधर्माध्यासितस्वरूपत्वाद् वस्तुनोऽनेकान्तवादिनो मुत्त्यभावप्रसङ्गः' इत्येतदपि सूक्ष्मेक्षिकया मुक्तिमार्गम५ नालोच्यैवोक्तमिति, उक्तवत् सत्त्वानित्यत्वादीनां विरोधित्वासिद्धेः, अन्यथा वस्त्वभावप्रसङ्गात् । किञ्च तथाभूतवस्त्वभावे सत्येकान्तवादिन एव मुत्त्यभावप्रसङ्गः । तथाहि-यदि तदात्मा-ऽङ्गना-भवन.. मणि-कनक-धन-धान्यादिकमेकान्तेनैवानात्मकत्वादिधर्मयुक्तं भाव
नालम्बनमिष्यते, हन्त तर्हि सर्वथाऽनात्मकत्वाद् भावकभाव्या१० भावात् तत्परिज्ञानोत्तरकालभाविभावनाभावतः कुतः कस्य वा
दोषप्रहाणमिति कथ्यतामिदम् ॥ . .. स्यादेतत् परपरिकल्पिताविचलितैकस्वभावात्मापेक्षया तदनात्म
(खो० व्या०) यच्चोक्तमित्यादि । यच्चोक्तं मूलपूर्वपक्षे-'विरोधिधर्माध्यासितस्वरूप१५ त्वाद् वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः' इत्येतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तमिति । कुत इत्याह-उक्तवत्-यथोक्तं तथा सत्त्वानित्यत्वादीनां धर्माणां विरोधित्वासिद्धेः कारणात् । अन्यथाएवमनभ्युपगमे किमित्याह-वस्त्वभावप्रसङ्गात् निर्णतिमेतत् । किञ्च तथाभूतवस्त्वभावे सति अनेकान्तात्मकवस्त्वभाव इत्यर्थः, एकान्तवादिन एव-वादिनो २० मुक्त्यभावप्रसङ्गः। एतदेवाह तथाहीत्यादीना । तथाहीत्युपप्रदर्शने । यदि तदा
मा-ऽङ्गना-भवन-मणि-कनक-धन-धान्यादिकमेकान्तेनैव-सर्वथैव अ. नात्मकत्वादिधर्मयुक्तं भावनालम्बनमिष्यते, हन्त तर्हि सर्वथानात्मकत्वात् कारणात् भावकभाव्याभावात् हेतोः तत्परिज्ञानोत्तरकाल
भाविभावनाभावतः-एकान्तेनैव अनात्मकत्वादिवस्तुपरिज्ञानोत्तरकालभाविभा. २५ वनाभावेन कुतः कस्य वा दोषप्रहाणं-रागादिप्रहाणमिति कथ्यतामिदम् ॥ ___ स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे परपरिकल्पितश्चासौ अविचलितकस्वभावश्चेति विग्रहः, एवम्भूतश्वासावात्मा च तदपेक्षया तत्
१ प्रथमे खण्डे २७तमे पृष्ठे। २ 'भावप्रसङ्गस्त्वभावप्रसङ्गात् इत्येतदपि' इति ग-पाठः । ३ 'कल्पिताविचालितक०' इति ग-पाठः । ४ प्रथमे खण्डे २७तमे पृष्ठे।