________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
भावः, तदभावाञ्च तस्यैव भगवतोऽभावप्रसङ्गः । न च विज्ञानमात्रसम्पादनीया एव ते, लोके तथाऽदर्शनात्, दानादिज्ञानभावेऽपि परप्रीत्याद्यभावात्, अतः शून्यतावचनवन्यायबाधितत्वात् प्रमाण - ५ भावाज्जातियुक्तियोगात् त्रैधातुकास्थानिवृत्त्यर्थमेवैतदिति युक्तम् एवं चाप्तवचनतोऽपि सिद्धे बाह्येऽर्थे व्यवस्थितं सदसदादित्वं घटस्य ॥ (zato suro)
ग्रहः । तन्निबन्धन गुणानाम् - आप्तनिबन्धन गुणानामभावः, तदभावाच - तन्निबन्धनगुणाभावाच्च तस्यैव भगवतः - आप्तस्य अभावप्रसङ्गः । न च १० विज्ञानमात्रसम्पादनीया एवैते दानपारमितादयः । कुत इत्याह- लोके तथाऽदर्शनात् । अदर्शनं च दानादिज्ञानभांवेऽपि परप्रीत्याद्यभावात् परोऽत्र सम्प्रदानम् | 'आदि' शब्दाद् भुक्तत्यादिग्रहः । उपसंहरन्नाह - अतः शून्यतावचनवदिति निदर्शनम् । शून्याः सर्वसंस्कारा इत्यादि न्यायबाधितत्वात् हेतोः प्रमाणभावात् शून्यतायां जातियुक्तियोगात् एतद्युक्तीनां धातुकास्था- १५ निवृत्त्यर्थमेव तत् - वचनं यदुत "चित्तमात्रम्" इत्यादि इति युक्तं वक्तुम् । एवं चाप्तवचनतोऽपि सिद्धे बाह्येऽर्थे किमित्याह - व्यवस्थितं सदसदादित्वं घटस्य ॥
१२३
( विवरणम् )
(१५) जातियुक्तियोगादिति । जातियुक्तिभिर्योगात्-सम्बन्धात् ॥ (१५) एतद्युक्तीनामिति । एतयुक्तीनां शून्यतावादयुक्तीनाम् ॥
(१५-१६) धातुकास्थानिवृत्त्यर्थमेवेति । रूपा-रूपा कामास्त्रयो धातवः । एतत् स्वरूपं च बौद्धराद्धान्तसिद्धमिति ॥
इति श्रीमुनिचन्द्रसूरिविरचिते अनेकान्तजयपताको द्योतदीपिकावृत्ति टिप्पण के योगाचारमतवादः ॥
१ 'भावोऽपि' इति ङ-पाठः । २ 'रूप्या - रूप्य काम्यास्त्रयो' इति च - पाठः ।
२०
२५