________________
१२२
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
णामवत् तत्समूहः' इत्युक्तम् । समूहः सञ्चय इति चानर्थान्तरमेव । न चेदं गम्भीरदेशनायोग्यतापादनाय विनेयानुगुण्यत उक्तमिति ५युक्तम्, प्रमाणाभावात्, तद्विवक्षाया अप्रत्यक्षत्वात् तथाऽनुभवाभावात्, तथापि तत्कल्पने अतिप्रसङ्गादिति। न च "चित्तमात्रं भो जिनपुत्र यदेतत् त्रैधातुकम्” इत्यादि बाधकं वचनमेव प्रमाणमत्र, तंदनाप्ततापत्तेः विरुद्धार्थाभिधानात् तुल्ययोगक्षेमत्वात्,
अस्यैव चान्यार्थत्वादिति । तथाहि-इदमेव युक्तं यदास्थानिवृत्यर्थ१० मस्य संयोग-वियोगाभ्यां हर्षादिकरणेन सङ्कल्पमात्ररमणीयताकथनम्, अन्यथा बाह्याभावेन दानपारमितादीनां तन्निबन्धनगुणानाम
(खो० व्या०) इत्युक्तं प्रा । मा भूत् समूह-सञ्चययोर्भेदप्रतिपत्तिरित्याह-समूहः सञ्चय इति चानान्तरमेव । न चेदं संञ्चितालम्बना इत्यादि गम्भीरदेशनायोग्यता५ पादनाय, विज्ञानदेशनायोग्यतापादनायेत्यर्थः, विनेयानुगुण्यतः-शिष्यानुगुण्येन . उक्तमिति युक्तं वक्तुम् । कुत इत्याह-प्रमाणाभावात्, तद्विवक्षाया:-आप्तविवक्षाया अप्रत्यक्षत्वात्-परोक्षत्वात् । अप्रत्यक्षत्वं च तथाऽनुभवाभावात्तद्विवक्षाग्रहणतयाऽनुभवाभावात् । तथापि-एवमपि तत्कल्पने-विनेयानुगुण्यत
उक्तमिति कल्पने किमित्याह-अतिप्रसङ्गादिति। न च "चित्तमात्रं भोजिन२० पुत्र यदेतत् त्रैधातुकं"-काम-रूपा-ऽरूपधातुरूपमित्यादि बाधकं वचनमेव प्रमाणमत्र विनेयानुगुण्यत उक्तमिति कल्पनायाम् । कुत इत्याह-तदनाप्ततापत्तेः आप्तस्थानाप्ततापत्तेः । आपत्तिश्च विरुद्धार्थाभिधानात् तथा तुल्ययोगक्षेमत्वात् । एतदेवाह-अस्यैव-चित्तमात्रमित्यादेवचनस्य अन्यार्थत्वादिति । इद
मेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । इदमेव युक्तं यदास्था२५ निवृत्त्यर्थमस्य-अर्थस्य संयोग-वियोगाभ्यां हर्षादिकरणेन, 'आदि'शब्दाद् विषादादिग्रहः, सङ्कल्पमात्ररमणीयताकथनम् । अन्यथा-एवमनभ्युपगमे बाह्याभावेन हेतुना दानपारमितादीनाम् । 'आदि'शब्दाच्छीलपारमितादि
(विवरणम्) (२७) दानपारमितादीनामिति । दानस्य प्रकर्षप्राप्तिनपारमिता। एवमन्याऽपि ॥ १२५तमे पृष्ठे । २ 'तदनाप्तताः ' इति ग-पाठः। ३ 'अस्यैवानार्थ.' इति ग-पाठः। १ २५तमे पृष्ठे । ५ 'संवितालम्बिना' इति क-पाठः । ६ 'बोधकं' इति क-पाठः । ७ 'बाह्यताभावेन' इति क-पाठः।