________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१२१ (मूलम् ) उच्यते” इत्यादि तदपि प्रतिक्षिप्तम् , अद्वयस्य निरंशत्वात् , असतश्वाननुभवात् । इति कर्मलक्षण एव क्लेशोऽस्तु। सत्यस्मिन्नपरिकल्पिते तद्योगात् क्लिष्टता तद्वियोगाच्च परमार्थत एव शुद्धिरित्युपपद्यते ५ भवापवर्गविशेषो नान्यथा। एवं च तस्य कर्मणः सत्त्वादचेतनत्वाद् बायसिद्धिरेवेत्यलं प्रसङ्गेन ॥
इतश्च बाह्यप्रतिक्षेपोऽयुक्तः, आप्तवचनविरोधात्, “सञ्चितालम्बना पञ्च विज्ञानकायाः" इति वचनप्रामाण्याद् बाह्यसञ्चयस्येष्टस्वात् , आलम्बनत्वेन तद्वस्तुत्वसिद्धेः, विज्ञानजनकत्वात् , अवस्तुनो १० जनकत्वायोगात्, उक्तवत् तद्भावाविरोधाच । तथाहि-तन्नरन्तर्यावस्थानमेव तेषां तथाखभावतया कथञ्चिदपृथग्भूततथाविधैकपैरि
(खो० व्या०) विकल्पात्मकत्वादेव क्लिष्टो बोध उच्यते इत्यादि यदुच्यते तदपि प्रतिक्षिप्तम् । कथमित्याह-अद्वयस्यैकतया निरंशत्वात् , असतश्च-क्लेशस्य १५ अननुभवात्। इति-एवं कर्मलक्षण एव क्लेशोऽस्तु । सत्यस्मिन्नपरिकल्पिते-कर्मलक्षणे क्लेशे तद्योगात्-कर्मलक्षणक्लेशयोगात् क्लिष्टता तद्वियोगाच-अपरिकल्पितक्लेशवियोगाच्च परमार्थत एव शुद्धिरिति-एवमुपपद्यते । किमित्याह-भवापवर्गविशेषो नान्यथा। एवं च सति तस्य कर्मणः क्लेशरूपस्य सत्त्वादचेतनत्वाद् बाह्य सिद्धिरेव बोधभेदेन इत्यलं प्रसङ्गेन ॥२०
इतश्च बाह्यप्रतिक्षेपोऽयुक्तः । कुत इत्याह-आप्तवचनविरोधात् । विरोधश्च सञ्चितालम्बनाः पञ्च रूपादिज्ञानभेदतः विज्ञानकाया इति वचनप्रामाण्यादेवं बाह्यसश्चयस्येष्टत्वादिति । आलम्बनत्वेन हेतुना तद्रस्तुस्वसिद्धेः। "सिद्धिश्च "विज्ञानजनकत्वात् अवस्तुनो जनकत्वायोगात् उक्तवत्-यथोक्तं तद्भावाविरोधाच-सञ्चयभावाविरोधाच । प्रागुक्तस्मरणार्थ-२५ माह तथाहीत्यादिना । तथाहि-तन्नैरन्तर्यावस्थानमेव, प्रक्रमात् परमाणुनैरन्तर्यावस्थानमेव तेषां-परमाणूनां तथास्वभावतया कारणेन कथञ्चिदपृथगभूततथाविधैकपरिणामवत्, तन्नैरन्तर्यावस्थानं तत्समूहः-परमाणुसमूहः
. १ 'प्रतिक्षेपो युक्तः' इति क-पाठः । २ 'भूतभूततथा०' इति क-पाठः । ३ 'परिणामवत्समूहा' इति ग-पाठः । ४ 'सिद्धेऽसिद्धिश्च' इति उ-पाठः । ५ सिद्धिश्च तद्विज्ञान.' इति क-पाठः ।
अन्देकान्त. १६