________________
१२०
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) तेषामपि मिथो भेदात् , तन्मात्रस्य च तद्भावहेतुत्वात् , अन्यथाऽधिकभावसिद्धिः, क्लिष्टो बोध इति क्लेशस्य बोधविशेषणत्वात्, असतो ५विशेषणत्वायोगात् अतिप्रसङ्गात्, तदितरत्राप्यविशिष्टत्वात् । तथाहि-बोधो बोध इति तत्त्वे क्लेशाभाव उभयत्राविशिष्ट एवेति । न च निरंशं तत्त्वमिति तत्त्वतो न विशेषण विशेष्यभावः, क्लिष्टो बोध इति तत्त्वानुपपत्तेर्निरंशस्यैकस्वभावत्वात् तस्य च बोध एवोपयोगात्, अन्यथा तदबोधतापत्तेः क्लिष्ट इति शब्दहेत्वभावात् "तत्त्वतस्तत्तत्त्वाविशेषात् । इति यथोदिततत्वानुपपत्तिः॥
एतेन यदुच्यते-"तदेवाद्वयं बोधमात्रं तथास्वभावत्वात् तथा:वभासमानं ग्राधादिरूपत्वाद् विकल्पात्मकत्वात् क्लिष्टो बोध
(स्वो० व्या०) प्रसङ्गश्च तेषामपि-शुद्धबोधानां मिथ:-परस्परं भेदात्, तन्मात्रस्य च५ भेदमात्रस्य च तद्भावहेतुत्वात्-क्लिष्टेतरभावहेतुत्वात् । अन्यथा-एवमनभ्युपगमेऽधिकभावसिद्धिः क्लिष्टो बोध इति-एवं क्लेशस्य बोधविशेषणत्वात् , असत:-क्लेशस्य विशेषणत्वायोगात् । अयोगश्च अतिप्रसङ्गात् । तदितरत्रापि-शुद्धबोधेऽविशिष्टत्वात् असद्विशेषणस्य । एतदेव भावयति
तथाहीत्यादिना । तथाहि-(बोधो) बोध इति तत्त्वे क्लेशाभाव उभयत्र२० बोधे अविशिष्ट एवेति तदितरत्राप्यविशिष्टत्वसिद्धिः। न चेत्यादि । न च निरंशं
तत्त्वमिति कृत्वा तत्त्वतः-परमार्थेन हेतुना न विशेषणविशेष्यभावः । कुत इत्याह-क्लिष्टो बोध इति-एवं तत्त्वानुपपत्तेः । अनुपपत्तिश्च निरंशस्यैकखभावत्वात् तस्य च-एकस्य स्वभावस्य बोध एवोपयोगात् । इत्थं
चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे तदबोधतापत्तेः तस्य-बोध२५ स्याबोधतापत्तेः । एवं क्लिष्ट इति शब्दहेत्वभावात् बोधैकस्वभावतया । अत एवाह-तत्वतः-परमार्थेन तत्तत्त्वाविशेषात्-बोधतत्त्वाविशेषात् । इतिएवं यथोदिततत्त्वानुपपत्तिः, क्लिष्टबोध इति तत्त्वानुपपत्तिरित्यर्थः ॥
एतेन यदुच्यते परैः-तदेवाद्वयं बोधमात्रं वस्तु तथाखभावत्वात् कारणात् तथाऽवभासमानं ग्राह्यादिरूपतयैव ग्राह्यादिरूपत्वात् कारणात्
(विवरणम्) (१९) बोधो बोध इति । कोऽर्थः ? | बोधो बोध इति क्लिष्टता हेतोरन्यस्य कस्यचिदभावात् ॥ १'द्वयबोधः' इति ग-पाठः। 'युद्धबोधानां' इति उ-पाठः। ३ 'ग्राह्यत्वादिरूप०' इति उ-पाठः।