________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
शुद्धबोधेऽपि तुल्यैवेयम् । कथं भूयस्तद्भावः एव ? मा भवत्विति निषिध्यते । इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा यस्य सर्वथा निवृत्तिस्तस्यानन्तरं तत्सदृशेनैव भवितव्यमित्युक्तदोषानतिवृत्तिरेव ॥
किञ्चाद्वये बोधमात्रे तत्त्वे सङ्किष्टोऽसक्लिष्टश्च बोध इत्येतदेवासम्भवि अन्यत्र वचनमात्रात् उभयत्र बोधमात्रभावात्, अन्यथा तत्तत्त्वासिद्धेः, तदतिरिक्तस्य चाभावाद् बोधभेदमात्रस्याप्रयोजकस्वात्, तस्मिन् सत्यपि जातिभेदायोगात् शुद्धबोध भेदेषु तदनुपपत्तेः । एवमपि तदङ्गीकरणे इष्टबाधा शुद्धबोधानामपि क्लिष्टेतरत्वप्रसङ्गात्, १० ( स्वो० व्या० ) नाशतो विजातीयजननस्वभावसिद्धेरित्यर्थः । एतदाशङ्क्याह- शुद्धबोधेऽपि तुल्यै वेयं - सर्वथा सक्लेशनिवृत्तिः, अतो विजातीयजननस्वभावसिद्धेः क्लिष्टबोधो भवतीति अभिप्रायः । अत्राह - कथं भूयः - पुनस्तद्भावः - शुद्धबोधभावः ? । एतदाशङ्क्याह- मा भवत्विति निषिध्यते । इत्थं चैतदङ्गीकर्त्तव्यमनन्तरोदितम् । अन्यथा - 19 एवमनभ्युपगमे सति यस्य सर्वथा निवृत्तिस्तस्यानन्तरं तत्सदृशेनैव भवितव्यं सर्वथा निवृत्त्याऽपि विजातीयजननभावताक्षेपादिति - एवमुक्तदोषानतिवृत्तिरेव । न क्लिष्टाच्छुद्धजन्मेति भावः ॥
अधिकारः ]
११९
मेवाह किश्चेत्यादिना । किञ्च अद्वये बोधमात्रे तत्त्वे सङ्किष्टः असङ्किष्टश्च बोध इत्येतदेवासम्भवि तत्त्वतः, अन्यत्र वचनमात्रात्, २० निरर्थकादिति । एतदेवाह - उभयत्र - सक्लिष्टेऽसक्लिष्टे च बोधमात्रभावात्, अन्यथा तत्तत्त्वासिद्धेः - बोधमात्रतत्त्वासिद्धेः तदतिरिक्तस्य च - बोधमात्रातिरिक्तस्य च अभावाद् बोधभेदमात्रस्य च केवलस्य अप्रयोजकत्वात् । कथमित्याह - तस्मिन् सत्यपि - बोधभेदमात्रे जातिभेदायोगात् । अयोगच शुद्धबोधभेदेषु नानासन्तानान्तरवर्तिषु तदनुपपत्तेः - जातिभेदानुपपत्तेः । २५ एवमपि - योधभेदमात्रतायां तदङ्गीकरणे - जातिभेदाङ्गीकरणे इष्टबाधा । कथमित्याह - शुद्धबोधानामपि सन्तानान्तरवर्तिनां क्लिष्टेतरत्वप्रसङ्गात् । ( विवरणम् )
क्लिष्टक्षणादनन्तरं सर्वप्रकारैर सङ्केश निवृत्तेस्तुल्यत्वात् डिष्टः क्षण उत्पद्यत इत्यप्यभ्युपगम्यतां सर्वथा निवृत्तेरुभयत्राप्यविशिष्टत्वात् ॥
3
३०
१ 'बुद्धबोधा०' इति पाठः । २ 'सिद्धे क्लिष्ट ०' इति क-पाठः । ३ ' भवत्विति' इति ङपाठ: । ४ ' खवनाक्षेपा०' इति ङ-पाठः । ५ 'अभ्युच्चय माह' इति ङ-पाठः । ६ "बुद्धबोद्धा. ' इति कु -पाठः ।