________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
"कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम् ।
ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ।" ५इत्यादिवचनात् । न चात्रोपादाननिमित्तभावो ज्यायान् , कस्यचित् कचित् सहकारित्वायोगादिति निर्लोठितं प्रपञ्चेन ॥
अनन्तरविज्ञानशक्तिपक्षे तु न नीलाच्छुक्लजन्म, तथाऽनुभवभावेऽपि सन्न्यायायोगात्, हेत्वभेदे फलभेदानुपपत्तेः, अन्यथाऽतिप्रसङ्गात् ,नीलाच्छुक्लवच्छुद्धादप्यशुद्धजन्मानिषेधात् । न शुद्धोऽशुद्ध•जननस्वभावः। इतर इतरस्वभावः कथम् ?, सर्वथा सक्लेशनिवृत्तेः
(स्वो० व्या०) शत्यन्तरोपादानं, शुक्लशक्त्युपादानमित्यर्थः, यस्मात् तत्-शुक्लमिष्यते भवद्भिः । कुत इत्याह-कस्यचित्-बोधमात्रस्य किञ्चिदेव-शक्तिरूपं अन्तवासनायाः प्रबोधकं भवति, ततो धियां विनियमो नीलशुक्लादितया, न १५ बाह्यार्थव्यपेक्षया इत्यादिवचनात् कारणात् । न चात्रोपादाननिमित्त
भावो ज्यायान् । कुत इत्याह-भवत्पक्षे कस्यचित् कचित् सहकारित्वायोगादिति एतन्निलोठितं प्रपञ्चेन अधस्तात् ॥ __ अनन्तरेत्यादि । अनन्तरविज्ञानशक्तिपक्षे पुनस्तस्यैवैषा शक्तिरित्यस्मिन् न 'नीला विज्ञानात् शुक्लजन्म-शुक्लविज्ञानोदयः।तथाऽनुभवभावेऽपि सति कि२० मित्याह-सन्यायायोगात् । अयोगश्च हेत्वभेदे सति फलभेदानुपपत्तेः। अभिन्न च नीलविज्ञानं नीलशुक्लहेतुः, शक्तिरपि तदेवेत्यभिप्रायः । एवं चोक्तदोषसिद्धिरेव । इत्थं चैतदङ्गीकर्त्तव्यमित्याह-अन्यथाऽतिप्रसङ्गात् । एनमेवाह-नीलाच्छुक्लवदिति निदर्शनम् । शुद्धादपि बोधादशुद्धजन्मानिषेधात् । आह-न शुद्धोऽशुद्ध
जननवभावः,बोध इति प्रक्रमः। अत्रोत्तरम्-इतर:-क्लिष्ट इतरजननखभावा२५ शुद्धजननस्वभावः । कथम् ? अत्राह-सर्वथा सक्लेशनिवृत्तेः-निरन्वयसक्लेश
(विवरणम्) (१८) अनन्तरविज्ञानशक्तिपक्षे इति । नीलज्ञानस्यैवेदृशी शक्तिर्येन तदनन्तरं शुक्लज्ञानमुत्पद्यते इत्यस्मिन् शुद्धबोधेऽपि तुल्यैवेयम् ॥
(२५) सर्वथा सक्लेशनिवृत्तरिति । अत्र 'सर्वथा'शब्दस्याग्रतोऽकारप्रश्लेषः कार्यः। ततोऽसङ्क्लेशनिवृत्तेरिति भवति । अत्र चायं भावार्थ:--यथा सक्लिष्टक्षणादनन्तरं सर्वथा सक्लेशनिवृत्तौ सत्यां शुद्धः क्षण उत्पद्यत इत्यङ्गीक्रियते तथाऽसङ् १ अनुष्टप। २ "मित्यर्थः यस्मात् तत् शुक्लामत्यर्थः यस्मात्' इति क-पाठः । ३ 'ज्यायवे' इति
अ-पाठः।
४'नीलादिज्ञानात्' इति तुर-पाठः।