________________
११७
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) निमित्तमिति चेत्, बाह्यार्थसिद्धिः । बोधमात्रमेवाविद्येति चेत्, ननूक्तो दोषः । क्लिष्टं तदेव सेति चेत्, कुतः क्लिष्टत्वम् ? । स्वभावत एवेति चेत्, न ततः शुद्धिः, अबोधक्षणस्येव ततोऽक्लिष्टस्यानुदयात्। ५ अक्लिष्टश्चासौ शुद्धिः, सचायुक्तः ततः, सक्लेशमात्रत्वात् ।तद्धि स्वखभावेनाजनयजनकधर्मतामतिपतति जनयच तेन भिन्नजातीयम् । न हि शुद्धबोधमात्रादशुद्धबोधजन्म, तत्तत्स्वभावनियमात्, न नीलात् शुक्लोदयवददोषः, तन्मात्रान्नीलान्तरवत् तदसिद्धेः, शत्तयन्तरोपादानं हि तदिष्यते,
(खो० व्या०) एतदाशङ्याह-बाह्यार्थसिद्धिः, बोधमात्रतोऽन्यत्वात् तस्या इति भावः । बोधमात्रमेवाविद्या। इति चेत्, एतदाशङ्कयाह-ननूक्तो दोष:-बोधमात्रनिमित्तत्वे सदापत्तिः । क्लिष्टं तदेव-बोधमात्रं सा-अविद्या । इति चेत्, एतदाशक्याहकुता क्लिष्टत्वं बोधमात्रस्य ? स्वभावत एव । इति चेत्, एतदाशङ्कयाह-न ततः १५ शुद्धिः, न क्लिष्टाद क्लिष्टजन्मेत्यर्थः। एतदेवाह अबोधेत्यादिना । अबोधक्षणस्येवेति निदर्शनम् । ततः-क्लिष्टाद् बोधमात्रात् अक्लिष्टस्यानुदयात् तस्यैव । अक्लिष्टश्चासौ-बोधः शुद्धिरुच्यते। स चैवम्भूतोऽयुक्तः ततः-क्लिष्टाद् बोधमात्रात्। कुत इत्याह-सक्लेशमात्रत्वात् तस्य । तद्धि-क्लिष्टं बोधमा खस्वभावेनआत्मीयेन रूपेण क्लिष्टतालक्षणेन अजनयत् । किमित्याह-जनकधर्मतामति- २० पतति, जनयच तेन स्वस्वभावेन (भिन्नजातीयं-) विजातीयं कार्य जनकधर्मतामतिपतति । एतदेव निदर्शनान्तरेणाह-न हि शुद्धबोधमात्रात् सकाशाद् अशुद्धबोधजन्म । कुत इत्याह-तत्तत्वभावनियमात् तस्य-शुद्धबोधमात्रस्य शुद्धबोधमात्रजननस्वभावनियमादिति । न नीलाद् बोधमात्राच्छुक्लोदयवददोषः, किन्तु दोष एव । कुत इत्याह-तन्मात्रात्-नीलमात्रात्, नीलान्तरवदिति २५ निदर्शनं सजातीयमेव । तदसिद्धेः-शुक्लोदयासिद्धेः । इत्थं चैतदङ्गीकर्तव्यमित्याह
(विवरणम्) (१७) तस्यैवेति । अक्लिष्टक्षणहेतोर्विवक्षितानन्तरक्लिष्टक्षणस्यैव । अयमभिप्राय:यथाऽयमक्लिष्टक्षणहेतुतया परिकन्कि( ? क्लि)ष्टक्षणहेतुतया परिकल्पितः क्लिष्टो ज्ञानक्षणः स्वकारणात् क्लिष्टक्षणात् , एवमस्मादपि क्लिष्टात् क्लिष्टस्यैवात्प दो युक्तः, नाक्लिष्टस्येति ॥ ३०
१'बाह्यार्थसिद्धेः' इति ग-पाठः। २ 'ततः अबोधः' इति ग-पाठः। ३ 'शुद्धः स इति ग-पाठः। ४ द्रष्टव्यं ११६तम पृष्ठम् । ५ 'अबोधे क्षण.' इति ङ-पाठः । ६ 'सकाशाद्' इति क-पाठः ।