________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) यद्येवं कथमद्वयं बोधमात्रं तत्त्वम् ? । न सा परमार्थत इति । नास्त्येव तर्हि किं तदर्थमनुमानलक्षणप्ररूपणया? । अथ साऽप्यसती, कथं .५शास्त्रप्रणयनम् ? । तदप्यसदेवेति । तदिदं विहारकक्षाप्रवेशनमित्यलमत्र निर्बन्धेन ॥
किश्चाद्वये बोधमात्रे तत्त्वे न भवापवर्गविशेष इति न युक्ता तत्तत्त्वकल्पना। कथं न विशेषो ग्राह्यादिप्रपञ्चवतो भवत्वात् तद्रहितस्य
चापवर्गत्वादिति, न, अद्वये बोधमात्रे ग्राह्यादिप्रपञ्चाभावात् , भावे १० वाद्वयत्वविरोधात् निमित्तासिद्धेश्च । तथाहि-किमस्य निमित्तम् ? अनिमित्तत्वेऽभावप्रसङ्गः । बोधमात्रनिमित्तत्वे सदापत्तिः। अविद्या
(स्वो० व्या०) प्रतिपत्तिः,लिङ्गात् लिङ्गिप्रतिपत्तिरित्यर्थः। एतदाशङ्क्याह-यद्येवं कथमद्वयं बोधमात्रं तत्त्वम् ? । अत्राह-न सा-अन्यतोऽन्यप्रतिपत्तिः परमार्थत इति कृत्वा । १५ एतदाशङ्कयाह-ना त्येव तर्हि सा किं तदर्थम्-अन्यतोऽन्यप्रतिपत्त्यर्थमनुमानलक्षणप्ररूपणया? न किञ्चिदित्यर्थः । पराभिप्रायमाह-अथ साऽप्यसती -अनुमानलक्षणप्ररूपणा । एतदाशङ्कयाह-कथं शास्त्रेण प्रणयनम् ? अस्ति चैतत् । अत्राह-तदप्यसदेवेति शास्त्रप्रणयनम् । एतदाशङ्कयाह-तदिदं विहारकक्षा
प्रवेशनं सर्वापलापेन इत्यलमत्र निर्बन्धेन, दुःस्थितत्वादस्य ॥ २० अभ्युच्चयमाह किश्चेत्यादिना। किञ्चाद्वये ग्राह्याकारादिरहिते बोधमात्रे तत्त्वेवस्तुनि न भवापवर्गविशेष इति कृत्वा न युक्ता तत्तत्वकल्पना-अद्वयबोधमात्रतत्त्वकल्पना । अत्राह-कथं न विशेषः, भवापवर्गयोरिति प्रक्रमः, ग्राह्यादिप्रपञ्चवतो बोधस्येति सामर्थ्य भवत्वात-संसारत्वात् तद्रहितस्य-ग्राह्यादिप्रपञ्चरहितस्य चापवर्गत्वात्-मोक्षत्वादिति । एतदाशङ्कयाह-न, अद्वये बोध२५ मात्रे तत्त्वे ग्राह्यादिप्रपश्चाभावात् , भावे वा ग्राह्यादिप्रपञ्चस्य-अद्वयत्वविरोधात् तथा निमित्तासिद्धेश्च ग्राह्यादिप्रपञ्चस्य । तथाहि-किमस्य-ग्राह्यादिप्रपञ्चस्य निमित्तम् ? अनिमित्तत्वे सत्यभावप्रसङ्गोऽस्य । बोधमात्रनिमित्तत्वे सदापत्तिस्तस्यापवर्गेऽपि भावात् । अविद्या निमित्तम् । इति चेत्,
(विवरणम्) ३० (१ -१९, विहारकशाप्रवेशनमिति । सर्वविचारपरिहारेण मैठककोणप्रवेश इत्यर्थः ।।
१ नास्त्येवं तर्हि' इति ग-पाठः। २ 'सामान्यतोऽन्यः' इति ङ-पाठः। ३ ‘मचैककोण' इति ख-पाठः।