________________
अधिकारः] स्वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम्
११५ (मूलम्) "अनग्निजन्यो धूमः स्यात् तत् कार्यात् कारणे गतिः । न स्यात् कारणतायां वा कुत एकान्ततो गतिः? ॥' तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् । जनयेदग्निनिर्भासां धियमेव न पावकम् ॥ तद्योग्यवासनागर्भ एवं धूमावभासिनीम् ।
व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्ततः ॥३ इत्यादि वार्तिककारेणोक्तं तदुक्तिमात्रमेव, उक्तवदयोगादिति ॥
अन्यस्त्वाह-संव्यवहारार्थमनुमानलक्षणप्ररूपणम् । स च उक्त-१० खरूपात् ततः सिद्ध्यत्येव, अन्यथा तदसिद्धेः; परमार्थतस्त्वद्वयं योधमात्रं तत्त्वमिति नानुमानानुमेयव्यवस्था। एतदप्यसत्, विचाराक्षमत्वात् । तथाहि-कोऽयं संव्यवहारः? अन्यतोऽन्यप्रतिपत्तिः ।
(स्वो० व्या०) सति यदिदमाशमय अनग्निजन्यो धूमः स्यादित्यादि वार्तिककारेणोक्तं ५ तदुक्तिमात्रमेवेति योगः । अनग्निजन्यो धूमः स्यात् प्रतिभासान्तरोत्पादेन तत्-तस्मात् कार्यात्-धूमात् कारणे गतिर्न स्थादग्नौ कारणतायां वा धूमस्यामौ तदुत्तरकालं तत्प्रतिभासभावतः कुत एकान्ततो गतिः, धूमादग्नेः नावश्यं कारणानि तद्वन्ति भवन्ति इति कृत्वा । इहोत्तरम्-तत्रापीत्यादि । तत्रापिव्यतिकरे धूमाभासा धीः प्रबोधपटुवासनां विशिष्टां जनयेदग्निनिर्भासां२० धियमेव, न पावकं-नाग्निम् । एवमपि कथममेधूम इत्याह-तद्योग्यवासनागर्भ:-अग्निनिर्भासधीयोग्यवासनागर्भः एवं धूमावभासिनीं धियं व्यनक्ति चित्तसन्तानः इति तेतः-सन्तानापेक्षया धूमोऽग्नित इत्युच्यते । इत्यादि वार्तिककारेणोक्तं यत् तदुक्तिमात्रमेव । कथमित्याह-उक्तवदयोगादिति ॥ ___ अन्यस्त्वाह-संव्यवहारार्थमनुमानलक्षणप्ररूपणम् । स च-संव्यव- २५ हार उक्तस्वरूपात् ततः अनुमानलक्षणात् सिद्ध्यत्येव, अन्यथा-उक्तलक्षणानुमानव्यतिरेकेण तदसिद्धेः-व्यवहारासिद्धेः। परमार्थतस्त्वद्वयं बोधमात्रं तत्त्वं ग्राह्यग्राह्यकाकारशून्यमिति नानुमानानुमेयव्यवस्था । एतदाशङ्ख्याहएतदप्यसत्-अशोभनम् । कुत इत्याह-विचाराक्षमत्वात्। एतदेवाह तथाहीत्यादिना । तथाहि-कोऽयं संव्यवहारो नाम ? । एवं पृष्टः पर आह-अन्यतोऽन्य-३०
१-३ अनुष्टुप् । ४ 'प्रयोगसादृश्यार्थ द्रष्टव्यं १०१तम पृष्ठम् । ५ 'तव सन्ताना.' इति कपाठः। ६ 'धूमोऽमिवत इत्यु' इति क-पाठः।