________________
११४
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
(मूलम्) दोषाभावः। इति बाह्यभाव एव ज्ञापकस्थितिः, नान्तयिभावे, उक्तवदयोगात्॥
एतेन स्वभावानुपलब्ध्योरपि ज्ञापकत्वं व्युदस्तम्। न हि स्वभावाख्यमपि लिङ्गमप्राप्तबहिःसत्ताकमद्वयबोधमात्रतया ज्ञापकत्वाय अलम् , ज्ञाप्यस्यातदात्मकत्वाच्च । न हि कृतकत्वादिज्ञानमनित्यत्वादिज्ञानात्मकम् , तथाऽननुभवात् , अनात्मभूतज्ञानान्तरगमकत्वे च
खभावत्वहानिः । तद्धि कारणभूतं वा गम्येत कार्यभूतं वेत्युभय• थाऽपि न युक्तियुक्तं स्वभावत्वम् , नियमतोऽभेदात्। एवं केवलभूतलादिज्ञानादपि घटाभावज्ञानादौ योजना कार्या । इति लिङ्गान्तरत्वाभावो भवन्नीत्या, तत्त्वतस्तथाऽननुभूतेरिति । एवं च यदिदमाशय
(खो० व्या०) इति-एवं बाह्यभाव एव सति ज्ञापकस्थितिः, नान्तर्जेयभावे । कुत १५ इत्याह-उक्तवदयोगात् अन्तर्जेयवादे ज्ञापकस्थितेरिति ।।
एतेन-अनन्तरोदितेन स्वभावानुपलब्ध्योरपि हेत्वोः ज्ञापकत्वं व्युदस्तम्-अपाकृतम् । कथमित्याह-न हीत्यादि । न यस्मात् खभावाख्यमपि लिङ्गं कृतकत्वादिरूपमप्राप्तबहिःसत्ताकमद्वयबोधमात्रतया कारणेन
ज्ञापकत्वायालम् , ज्ञाप्यस्यातदात्मकत्वाच । एतदेवाह न हीत्यादिना । २० न हि कृतकत्वादिज्ञानं अनित्यत्वादिज्ञानात्मकम् । कथं नेत्याह-तथाऽननुभवात्-कृतकत्वादिज्ञानस्यानित्यत्वादिज्ञानात्मकत्वेनाननुभवात् । अनात्मभूतज्ञानान्तरगमकत्वे च कृतकत्वादिज्ञानस्य स्वभावत्वहानिः। तद्धीत्यादि । तद् यस्मादनित्यत्वादिज्ञानं कारणभूतं वा गम्येत तेन कार्यभूतं
वा। उभयथापि-एवं न युक्तियुक्तं स्वभावत्वम् । कुत इत्याह-नियमतः २५ अभेदादनयोः। एवं केवलभूतलादिज्ञानादपि सकाशाद् घटाभावज्ञानादौ साध्ये योजना कार्या । इति-एवं लिङ्गान्तरत्वाभावो भवन्नीत्या-द्वयबोधमात्रतया तत्त्वतः-परमार्थेन तथा-लिङ्गतया अननुभूतेरिति । एवं च
(विवरणम्) (१४) बाह्यभाव एवेति । बाह्यार्थसद्भाव एवेत्यर्थः ।। १ 'अलं न हि ज्ञाप्यः' इति क-पाठः। २ 'साध्ययोजना' इति क-पाठः। ३ 'लिलिङ्गितया' इति -पाठः।