________________
११३
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् ) अविवेचितं लिङ्ग लिङ्गिनं गमयति, न चायमसम्भवीति, कार्यकारणभावस्य सर्वत्र नियतत्वात्, अन्यथा तदनुपपत्तेः । एवमपि नो 'दोषाभाव एव, अनग्नेधूमवदधूमाद् धूमज्ञानाविरोधादिति ॥ ५
शक्रमूर्द्धनि धूमासिद्धेः अधूमान्न जातुचिद् धूमज्ञानमिति चेत्, न, बाष्पादौ भावात् तथालोकप्रतीतेः। तस्य तदाभासत्वे शक्रमूर्द्धधूमेऽपि समानः प्रसङ्गः, उत्पातजत्वेन तस्याप्यधूमत्वात् । इति नियत एव कार्यकारणभावोऽभ्युपगन्तव्यः। तथा च सति बाष्पादौ सदितरविशेषपरिज्ञानवत् शक्रमूर्द्धधूमादावपि तत्सम्भवादुक्त- १०
(स्वो० व्या०) यत्नः कार्यों भवता । किमित्यत आह-नाविवेचितं लिङ्गं लिङ्गिनं गमयति। न चायमसम्भवी परिज्ञानयत्नः । कथमित्याह-कार्यकारणभावस्य सर्वत्र नियतत्वात्, अन्यथा तदनुपपत्तेः-कार्यकारणभावानुपपत्तेः । एवमपि, तदनियतत्वेऽपीत्यर्थः, न:-अस्माकं दोषाभाव एव । कथमित्याह-अनग्नेः-१५ शक्रमूर्भो धूमवदिति निदर्शनं अधूमात् सकाशात् धूमज्ञानाविरोधादिति॥
आह-शक्रमूर्द्धनि धूमासिद्धेः कारणादधूमात् सकाशात् न जातुचित्न कदाचिद् धूमज्ञानम् । इति चेत्, एतदाशङ्क्याह-न बाष्पादौ भावात्, 'आदि शब्दाद् विशिष्टरेण्वादिग्रहः, तथा-धूमतया लोकप्रतीतेरिति। तस्येत्यादि । तस्स-बाष्पादेः तदाभासत्वे-धूमाभासत्वे । किमित्याह-शक्रमूर्द्धधूमेऽपि स-२० मानः प्रसङ्गः। सोऽपि धूमाभास एवेति उत्पातजत्वेन हेतुना तस्यापि-शक्रमूर्द्धजधूमस्य अधूमत्वात्। इति एवं नियत एव कार्यकारणभावोऽभ्युपगन्तव्यः। तथा च सति-एवं च सति बाष्पादौ तदितरविशेषपरिज्ञानवत्-धूमेतरविशेषपरिज्ञानवदिति निदर्शनम् , शक्रमूर्द्धधूमादावपि अधिकृते तत्सम्भवात्-तदितरविशेषपरिज्ञानसम्भवात् । किमित्याह-उक्तदोषाभावः । २५
(विवरणम्) (२१) उत्पात जत्वेनेति । शक्रमूर्द्धप्रभवो हि धूम उत्पातज एव, अरिष्टरूपत्वात् ॥
(२३-२४) तदितरविशेषपरिज्ञानसम्भवादिति । तस्माद्-धूमादितरस्य-धूमाभासस्य सम्बन्धिनो विशेषस्य यत् परिज्ञानं तस्य सम्भवात् ॥
१ 'दोषभावः' इति ग-पाठः । २ 'मूर्धे धूमेऽपि' इति उ-पाठः। ३ 'तदपर विशेषपरिज्ञानवत्' इति उ-पाठः। ४ 'मूर्द्धप्रभावो' इति ख-पाठः ।
अनेकान्त. १५