________________
११२
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
. (मूलम्) (तथाप्रतीतेः) विच्छिन्नार्थग्रहणखभावसंवेदनवेदनाच्च । बायार्थगोचरः, खनिवृत्त्यपरोत्पत्तिद्वयनिष्पादनकखभांवत्वेन च तचित्रता५पत्त्या वस्त्वन्वयानुसारी फलवान् चित्रक्षयोपशमसम्भूतचित्रज्ञानसंवेद्य इति परिभाव्यतामेतत् ॥
आह-एवमपि तत्तदाभासविशेषो दुष्परिज्ञान एव, उभयत्र धूमवेदनात् । उच्यते-अस्ति तावदसौ, परिज्ञाने तु यनः कार्यों न
(स्वो० व्या) ३० भासविसायाभाव इति । अस्ति चायं-तत्तदाभासावसायः आविद्वदङ्गनादिसिद्धः तथाप्रतीतेः विच्छिन्नार्थग्रहणस्वभावसंवेदनवेदनाच । अये बायाथगोचरस्तथाप्रतीतेरेव तथा खनिवृत्यपरोत्पत्तिद्वयनिष्पादनैकखभाषत्वेन च हेतुना तचित्रतापत्रया कारणेन वस्त्वन्वयानुसारी फलवान
तदुभयभावत एव चित्रक्षयोपशमसम्भूतचित्रज्ञानसंवेद्य इति परि१५भाव्यतामेतत् सर्वमेवेति ॥
आह-एवमपि-यथोक्तं भवता तथापि तत्तदाभासविशेषः-धूमधूमाभासविशेषो दुष्परिज्ञान एव । कुत इत्याह-उभयत्र-तत्तदाभासे धूमवेदनात्। उच्यतेऽत्र समाधिः-अस्ति तावदसौ-तत्तदाभासविशेषः परिज्ञाने तु
(विवरणम्) २० (१२) तथाप्रतीतेरेवेति । प्रतीयते हि लोके बाह्यार्थरूपोऽमेोतो धूमो धूमत्वेन, वल्मीकोद्भवस्तु धूमाभासत्वेन ॥ भवतु नाम बाह्यार्थगोचरस्तत्तदाभासावसायः, परं वस्त्वन्वयानुसारी न भविष्यतीत्याह-(१२-१३) तथा स्वनिवृत्त्यपरोत्पत्तिद्वयनिष्पादनैकस्वभावत्वेन च हेतुना तच्चित्रतापत्त्या कारणेन वस्त्वन्वयानुसा
रीति । वस्तुन:-धूमादेरन्वयः कार्येऽनुगमो वा वस्त्वन्वयस्तमनुसरति-अनुयातीत्येवं२५ शीलो वस्त्वन्वयानुसारी तत्तदाभासावसायः वस्तूनामन्वयं साक्षात् कुर्वाणस्तत्तदाभासावसायः प्रवर्तत इत्यर्थः । फया यो वस्त्वन्वय इत्याह-तच्चित्रतापत्त्या तस्यवस्तुनश्चित्रतापत्त्या कारणेन । एषाऽपि कुत इत्याह-स्वनिवृत्तिश्च-आत्मनः कथञ्चिन्नाशः अपरोत्पत्तिश्च-कार्योत्पाद एतल्लक्षणं यद् द्वयं तन्निष्पादन ऐकः स्वभावो तत् तथा तस्य भाव: तत्त्वं तेन हेतुना। इदमुक्तं भवति-धूमा दिवस्त्वात्मानं निवर्तयति कार्य च १. जनयतीति चित्रस्वभावत्वाचास्यान्वयः, तदन्वयं च तत्तदाभासावसायोऽनुसरतीति ।।
१ 'संवेदनाच' इति ग-पाठः। २ 'भावत्वे च तचित्र.' इति ग-पाठः । ३ 'लोके बाह्यार्थसद्भावसाधकमिदं सर्वमपि प्रामुक्तम् , अतो भवत्पक्षे स तचित्रतापत्या' इति ख पाठः। ४ 'यत(?)द्वयं' इति ख-पाठः। ५ 'एतत् तदाभासावसायातू तथा तस्य' इति ख-पाठः।