________________
१११
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) परिभाव्यतामेतत् । बाह्यान्वयिचित्रवस्तुभावे चायमदोषः, लिङ्गप्रतिपत्तिकाले लिङ्गिन एव सत्त्वात्, लिङ्गस्यापि वैशिष्ट्योपपत्तेः, अग्निजन्यस्वभावत्वस्यापि धूमे भावात् , तदाभासे चाभावात्, ५ अन्यथा तत्तदनुपपत्तेः शक्रमू देरप्यग्नित्वप्रसङ्गादिति चित्रखभावता धूमस्य, धूममात्रप्रतिभासजननवभावाधिकखभावभावात्, अन्यथा तन्मात्रप्रतिभासाविशेषात्, तन्मात्रादुत्पत्ते, तत्तदाभासावसायाभाव इति । अस्ति चायमाविद्वदङ्गानादिसिद्धः
(खो० व्या०) इति । एवं चेत्यादि । एवं च कृत्वा सर्वमसमनसमिति परिभाव्यतामेतत्अनन्तरोदितमिति । बाह्येयादि । बाह्यान्वयिचित्रवस्तुभावे सति अयम्अनन्तरोदितः अदोषः । कथमित्याह-लिङ्गप्रतिपत्तिकाले सति लिङ्गिन एव सत्त्वात् अन्वयित्वेन तथा लिङ्गस्यापि-धूमादेः वैशिष्ट्योपपत्तेः । कथमित्याह-अग्निजन्यखभावत्वस्यापि धूमे भावात् चित्रवस्तुभावेन, १५ तदाभासे च-धूमाभासे च शक्रमू दिनभवेऽभावात् अग्निजन्यस्वभावत्वस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे तत्तदनुपपत्तेः, तस्यतदाभासस्य तदनुपपत्तेः-तदामासत्वानुपपत्तेः अग्निजन्यस्वभावत्वस्य भावेन । किमित्याह-शामू देरप्यग्नित्वप्रसङ्गात् अग्निजन्यस्वभावधूमजनकत्वेन । न चैतदेवमिति चित्रखभावता धूमस्य । इहैवोपपत्तिमाह-धूममात्रप्रति-२० भासजननखभावाधिकस्वभावभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा तन्मात्रप्रतिभासाविशेषात्-धूममात्रप्रतिभासाविशेषात् । अविशेपश्च तन्मात्रात्-धूममात्रादुत्पत्तेः, तत्तदाभासावसायाभावः-धूमधूमा
(विवरणम्) पचन्द्राद भविष्यन् पौर्णिमाशशधर इति । न च वाच्यं व्यभिचारोऽत्र भविष्यति, २५ यतो वज्रासनात्-प्रधानाद् योगिप्रतीततदासनविशेषात् सकाशाद् विशिष्टज्ञानमनुमानवद्-दिव्यज्ञानानुमान इव व्यभिचारस्थासम्भवात् । अयमभिप्रायः-वासने प्रकर्षप्राप्ते सति नियमाद् दिव्यज्ञानमुत्पद्यत इति भवतां कृतान्तः । ततो यथा वनासनादनुमीयमानेन व्यभिचारसम्भवः, एवं प्रतिपञ्चन्द्राद् पौर्णिमाशशधरानुमानेऽपि व्यभिचाराभाव एवेति ॥
(११) सर्वमसमञ्जसमिति । बाह्यार्थसद्धावसाधकमिदं सर्वमपि प्रागुक्तम् , अतो भवत्पक्षे सर्वमसमञ्जसं प्राप्तम् , अभ्युपगमस्य व्यवहारेण बाधितत्वात् ।।
सर्व समअसं इति क-पाठः ।