SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् मतिद्धाः ! शुद्धा प्रभवति कथं साऽद्य भवतां 'विचारश्चार्वाकाः ! प्रचरति कथं चारुचतुरः । कुतर्कस्तर्कज्ञाः! किमपि स कथं तर्कयति यः सति स्याद्वादाङ्गे प्रकटहरिभद्रोक्तवचने ॥१॥ ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवारभारतुष्ट प्रेडद्दर्पिष्टदुष्टप्रमदवशभुजास्फालनोत्तालवालाः। यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद् गम्भीरं प्रसन्न हरति हृदयं भाषितं कस्य जन्तो?॥२॥ यथास्थिताहन्मतवस्तुवेदिने निराकृताशेषविपक्षवादिने । विदग्धमध्यस्थनमूढतारये नमोऽस्तु तस्मै हरिभद्रसूरये ॥ ३॥ सितपटहरिभद्रग्रन्थसन्दर्भगर्भ विदितमभयदेवं निष्कलङ्काकलङ्कम् । सुगतमतमथालङ्कारपर्यन्तमुच्चै स्त्रिविधमपि चं तर्क वेत्ति यः साङ्ख्य-भट्टौ ॥४॥ श्रीमत्सङ्गमसिंहमूरिसुकवेस्तस्याङ्गिसेवापर शिष्यः श्रीजयसिंहसूरिविदुषस्त्रैलोकाचूडामणेः । यः श्री नागपुर प्रसिद्धसुपुरस्थायी श्रुतायागतः ___ श्लोकान् पञ्च चकार सारजडिमाऽसौ यक्षदेवो मुनिः॥५॥"२० समाप्तं चेदमनेकान्तजयपताकासूत्रं सम्पूर्णमिति ग्र० ३७५० श्रीरस्तु ॥ १ "विचारश्चार्वाकः प्रचरति' इति क-पाठः । २ शिखरिणी । ३ 'तद्गम्भीरप्रसन्न' इति ग-पाठः । ४ स्रग्धरा । ५ वंशस्थविलम् । ६ भद्रं प्रन्थ०' इति ग-पाठः । ७ 'वत्तार्क तेत्ति य साङ्ख्य' इति क-पाठोऽशुद्धः। ८ मालिनी। ९ 'स्यांविसेवा०' इति ग-पाठः। १० 'पुरे प्रसिद्ध इति ग-पाठः। ११ शार्दूलविक्रीडितम्। १२ एतत्स्थाने ग-प्रतौ पाठोऽयम्-‘इति अनेकान्तजयपताकाख्यं प्रकरणम् ॥श्रीः ॥ अनेकान्त० ३१
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy