________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१०९ (मूलम्) कार्यानुमानसिद्धौ च तदनन्तरप्रतिभासस्यापि जलौदनादिरूपस्य तत एवानुमानप्रसङ्गा, प्रस्तुतधूमप्रतिभासहेतोस्तद्योग्यताया अपि भावात् , अभावे तद्भावविरोधात् सन्तानोच्छेदापत्तेः, तदभ्युपगमे ५ च प्रतीतिबाधा। न तत्रार्थितादय इत्यप्रसङ्ग इति चेत्, वस्तुस्थितिस्तावदेवम्, अर्थितादयस्त्वितरत्रापि चिन्त्याः, बाह्याभावे वसंवेद्यक्षणिकज्ञानमात्रपक्षे तेषां दुर्घटत्वात् । किं वा न तेऽपि? अज्ञानमत्रापराध्यति। यदा पुनरुक्तवत् तद्योग्यतावगमसम्भवः (खो व्या०)
१० इत्याह-उक्तवत्-यथोक्तं तथा कार्यानुमानव्यतिरेकेण तदप्रवृत्तेः-अर्थक्रियार्थ्यप्रवृत्तेः । अभ्युच्चयमाह तथेत्यादिना । तथा कार्यानुमानसिद्धौ च सत्यां तदनन्तरप्रतिभासस्यापि-अग्निप्रतिभासान्तरप्रतिभासस्यापि जलोदनादिरूपस्य चित्रस तत एव, धूमप्रतिभासादिति प्रक्रमः । किमित्याह-अनुमानप्रसङ्गः। कथमित्याह-प्रस्तुतधूमप्रतिभासहेतोः प्रतिभासान्तरस्य तद्योग्यताया ५ अपि-जलौदनादिरूपप्रतिभासयोग्यताया अपि भावात् । तदभावेऽग्निप्रतिभासानन्तरं कथं क्वचिन्जलौदनादिप्रतिभास इति भावनीयम् । अत एवाह-अभावेतद्भावविरोधात् अभावेऽधिकृतयोग्यताया तद्भावविरोधात्-जलौदनादिरूपप्रतिभासविरोधात् तथा सन्तानोच्छेदापत्तेः अपराभावेन अभ्युपगमे च सन्तानोच्छेदस्य प्रतीतिबाधा । तदूर्द्धमपि जलौदनादिरूपप्रतिभासप्रतीतेः । न तत्रेत्यादि । तत्र-२० जलौदनादिरूपे प्रतिभासान्तरे अर्थितादय इति कृत्वा अप्रसङ्गः। इति चेत्, एतदाशङ्याह-वस्तुस्थितिस्तावदेवं यथोक्ता, अर्थितादयास्त्वितरत्रापिअग्निप्रतिभासादौ चिन्त्याः । कथमित्याह-बाह्याभावे सति खसंवेद्यक्षणिकज्ञानमात्रपक्षे तेषाम्-अर्थितादीनां दुर्घटत्वात् । किं वा न तेऽपि-अर्थिसादयः ? । अज्ञानमत्रापराध्यति योग्यतायाः। यदा पुनरुक्तवत् तद्-२५
(विवरणम्) (१९) अपराभावेनेति । अपरस्य-जलौदनादेः प्रतिभासस्याभावेन । अयमभिप्रायः--प्रतिभासानां निर्मूलोच्छिन्नत्वात् ।।
(२४-२५) किं वा न तेऽपि-अर्थितादय इति । जलौदनादिविषया अपि अर्थितादयः किं वा न भवन्ति ? भवन्त्येव जैनमते कस्यचित् प्रमातुरित्यर्थः ॥ यतः३० (२५) अज्ञानमत्रापराध्यति योग्यताया इति । अज्ञातायां हि आद्यविज्ञानलक्षणस्य योग्यतायामर्थितादयो जलादिगोचरा न भवन्ति ॥ १ 'भासादिति प्रति प्रक्रमः' इति ङ-पाठः । २ 'मर्थितायामर्थितादयो' इति ख-पाठः ।