________________
१०८
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) कार्यादेव कारणानुमानम् । तद्योग्यताप्रतिपत्तिरेव च तत्त्वतः
अग्निप्रतिभासप्रतिपत्तिः । इति न कारणात् कार्यानुमानापत्तिः । ५ एतदप्यसत्, प्रतीतिबाधितत्वात् । न वै धूमप्रतिभासादुक्तलक्ष. णात् कारणप्रतिपत्तिः, तथाऽननुभवात्, तदुत्तरकालमेव कचित् अग्निप्रतिभासानुभूतेन सा हेतुप्रतिभासस्य तथायोग्यतां विहाय इति चेत्, अस्त्येतत्, किन्त्वसौ नाग्दिर्शिना तथाऽवगन्तुं पार्यते, तथाप्रतीतेः, अवगमेऽपि बलात् कारणात् कार्यावसायप्रसङ्गा, १० तावत्क्षणव्यवहिताग्निप्रतिभासावधित्वात् तस्या इति । 'एवं चार्थक्रियार्थिनोऽपि प्रवृत्तिरविरुद्धा, प्रतिबन्धकाभावे दाहपाकादिनिर्भा. सहेतुरग्निप्रतिभासो भविष्यत्यत्रेत्येवमभिप्रायस्य प्रवृत्तेरिति" अपि वचनमात्रमेव, उक्तवत् कार्यानुमानव्यतिरेकेण तदप्रवृत्तेः । तथा
(खो० व्या०) १५ इति एवं कार्यादेव कारणानुमानम्। तत्त्वतः तद्योग्यताप्रतिपत्तिरेव चविवक्षितकारणयोग्यताप्रतिपत्तिः । इति-एवं न कारणात् कार्यानुमानापत्तिः इति । एवं पराभिप्रायमाशङ्कयाह-एतदप्यसत्-अशोभनम् । कुत इत्याहप्रतीतिबाधितत्वात् । एतदेवाह-न वै धूमप्रतिभासात्-अधिकृतात् उक्तलक्षणयोग्यतासचिवा(त्) कारणप्रतिपत्तिः। कुत इत्याह-तथाऽननुभवात्। २० न हि तदा तद्योग्यतानुभवः, अग्निप्रतिभासयोग्यताऽनुभवे हि तदैवाग्निप्रतिभासापत्तेरिति भावनीयम् । तदुत्तरेत्यादि । तदुत्तरकालमेव-धूमप्रतिभासोत्तरकालमेव योग्यताप्रतीतिव्यवधानमन्तरेण कचिदग्निप्रतिभासानुभूतेः कारणात् । न सा-अनुभूतिः हेतुप्रतिभासस्य-अधिकृतस्य तथा-तेन प्रकारेण योग्यता विहाय । इति चेत्, एतदाशङ्कयाह-अस्त्येतद् यदुक्तं भवता, किन्त्वसौ५ योग्यता नार्वाग्दर्शिना-पृथग्जनेन प्रमात्रा तथा तेन प्रकारेण अवगन्तुं पार्यते। कुत इत्याह-तथाप्रतीतेः कारणात् । अवगमेऽपि कथञ्चिद् योग्यताया बलात् कारणात् कार्यावसायप्रसङ्गः । कथमित्याह-तावत्क्षणव्यवहिताग्निप्रतिभासावधित्वात् तस्याः-योग्यताया इति । एवं चार्थक्रियार्थिनोऽपि-प्रमातुः प्रवृत्तिरविरुद्धा । कथमित्याह-प्रतिबन्धकाभावे सति ३० दाहपाकादिनिर्भासहेतुरग्निप्रतिभासो भविष्यत्यत्रेत्येवमभिप्रायस्य-प्रमातुः प्रवृत्तरित्यपि पूर्वपक्षोदितं वचनमात्रमेव, निरर्थकमित्यर्थः । कुत १ द्रष्टव्यं १०३ तमं पृष्टम् । २ 'प्रवृत्तिरिलपि' इति ङ-पाठः। ३ १०३तमे पृष्ठे प्रोक्तम् ।