________________
१०७
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १०७
(मूलम्) अन्यथाऽयोगाद् व्यवहारासिद्धेरिति । अस्तु वाऽग्निप्रतिभासजननसमर्थादेव प्रतिभासान्तरादस्य जन्म, तथापि ततस्तत्सामर्थ्यतो भाव्यग्निप्रतिभासानुमानात् कारणात् कार्यावसायप्रसङ्गः ।। ५
स्यादेतद् यतोधूमप्रतिभासस्ततोऽग्निप्रतिभासोऽपि ।इति तत्त्वतो धूमप्रतिभासोऽग्निप्रतिभासेन सहकसामग्यधीनस्ततोऽयं खकारणस्यैवाग्निप्रतिभासजननयोग्यतां नाम धर्ममनुमापयति । इति
(खो० व्या) कथमेतदेवमित्याह-लोके तथाऽदर्शनात्-तेन सह प्रतिबन्धग्रहणादर्शनात् । इत्थं १० चैतदङ्गीकर्तव्यमित्याह-अन्यथाऽयोगात्। एवं च भवन्नीसैव व्यवहारासिद्धेरिति । अभ्युच्चयमाह अस्तु वेत्यादिना । अस्तु वा-भवतु वा अग्निप्रतिभासजननसमर्थादेव प्रतिभासान्तरात्-पराभिप्रेतात् अस्य जन्म, प्रक्रमाद् धूमप्रतिभासस्य, तथापि-एवमपि सति ततः-धूमप्रतिभासात् तत्सामर्थ्यत:-प्रस्तुतप्रतिभासान्तरसामध्येंन भाव्यग्निप्रतिभासानुमानात् १५ कारणात् । किमित्याह-कारणात् सकाशात् कार्यावसायप्रसङ्गः। एवं च लिङ्गसङ्ख्यानियमो विरुध्यत इति ॥ __ स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे यतो धूमप्रतिभासः प्रतिभासान्तरात् ततोऽग्निप्रतिभासोऽपि भावी । इति-एवं तत्त्वतः-परमार्थेन धूमप्रतिभासोऽग्निप्रतिभासेन सह किमित्याह-एकसामग्र्यधीनो वर्तते २० ततोऽयं-धूमप्रतिभासः स्वकारणस्यैव-प्रक्रान्तप्रतिभासान्तरस्य अग्निप्रतिभासजननयोग्यतां नाम धर्ममनुमापयति, तदव्यतिरिक्तत्वात् तस्य ।
(विवरणम्) (११) अन्यथाऽयोगादिति । अनग्निप्रतिभासेन सह धूमप्रतिभासस्य प्रतिबन्ध ग्रहणदर्शनेऽभ्युपगम्यमानेऽयोगात्-अघटनात् प्रतिबन्धस्यैव ।।
(१६-१७) एवं च लिङ्गसङ्ख्यानियमो विरुध्यत इति । भवतो हि मते त्रिरूपाणि च त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावः कार्य चेति वचनान्नियतसायानियमस्त्रिरूप एव । यदा च कारणादनग्निनिर्भासरूपात् धूमप्रतिभासहेतो व्यग्निप्रतिभासरूपं कार्यमनुमीयते तदा आपद्यते कारणात् कार्यावसायः। एवं च कारणलिङ्गं चतुर्थ प्राप्नोति । तच प्रस्तुतसङ्ख्यानियमविरोधाधायकमिति ।। .. १ 'नाम' इति पाठो न विद्यते क-प्रतौ। २ 'तस्य' इति -पाठः । ३ 'सामर्थ्यात् भाव्यग्निक इति -पाठः।