________________
१०६
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
१.
.
तोऽग्निनिर्भासा, विध्यापितादौ कचिदसम्भवात् । न च प्रतिषन्धकाभावविशेषणान्न तुल्यत्वमिति युक्तं वचः, अस्येतरत्रापि वक्तुं ५शक्यत्वात् । तथाहि-शक्रमूर्द्धप्रतिभासादपि धूमप्रतिभासोत्पत्ती प्रतिबन्धकाभावे सति उक्तवद् भवत्येवाग्निप्रतिभासा, तद्विकारादग्यन्तराभवनस्यैव प्रतिबन्धकत्वात् । प्रतिबन्धग्रहणकाले न शक्रमूर्द्धप्रतिभासेन धूमप्रतिभासस्य ग्रहणमिति चेत्, समानमेतदनग्निप्रतिभासतस्तद्भावे, तत्प्रतिभासान्तरेण लोके तथाऽदर्शनात्,
(खो० व्या०) त्पत्तौ सत्यां नियमत:--अवश्यन्तया अग्निप्रतिभासः । कथं न होत्याहविध्यापितादौ कचित्-दैवेन असम्भवात् अग्निप्रतिभासस्य । न चेत्यादि । न च प्रतिबन्धकाभावविशेषणात् असति प्रतिबन्धक इत्यस्मात् न तुल्यत्वमिति एवं युक्तं वचः। कुतो न युक्तमित्याह-अस्य-वचस इतरत्रापि१५ प्रस्तुतप्रतिभासान्तरे वक्तुं शक्यत्वात् । एतदेव भावयति तथाहीत्यादिना । तथाहि-शक्रमूर्द्धप्रतिभासादपि प्रक्रान्ताद् धूमप्रतिभासोत्पत्ती सत्यां प्रतिबन्धकाभावेऽपि सति असति प्रतिबन्ध इति उक्तवत्-यथोक्तं तथा भवत्येवाग्निप्रतिभासो न भवति । कुत इत्याह-तद्विकारात्, प्रक्रमात् शक्रमूर्द्धविकारात् , अन्यन्तराभवनस्यैव प्रतिबन्धकत्वात् । प्रतिवन्धेत्यादि । प्रति२० बन्धग्रहणकाले लिङ्गलिङ्गिनोर्न शक्रमूर्द्धप्रतिभासेन सह धूमप्रतिभासस्य लिङ्गभूतस्य ग्रहणम् । इति चेत्, एतदाशझ्याह-समानमेतत्-अनन्तरं चोदितं सामान्येन अनग्निप्रतिभासतः सकाशात् तद्भावे-धूमप्रतिमासभावे तत्प्रतिभासान्तरेण-अनग्निप्रतिभासान्तरेण धूमप्रतिभासकारणतयेष्टेन सहेति भावः।
(विवरणम्) २५ (१८-१९) शक्रमूर्द्धविकारात् अन्यन्तराभवनस्यैव प्रतिबन्धकत्वादिति ।
शक्रमूर्द्धविकारादनन्तरं यदम्यन्तरस्याभवनम्-अनिविशेषस्याभवनं तस्यैव प्रतिबन्धकत्वात् । परस्य ह्ययमाशयः-प्रतिबन्धकाभावे विवक्षितानग्निनिर्भासाद् व्यवहारकालभाविपारम्पर्येण भवत्येवाग्निनिर्भासः। आचार्योऽप्येवमाह-प्रतिवन्धकाभावे सति शक्रमूर्भोऽपि परम्परया भवत्येवानलप्रतिभासः । प्रतिवन्धनं चैतदेवान यच्छक्रमूर्द्ध३० विकारादनन्तरं कचिदग्निप्रतिभासविशेषस्याभवनमिति ॥
१ 'भासोत्पत्तेः प्रति०' इति ग-पाठः। २ 'दग्न्यन्तरस्याभवन.' इति ग-पाठः। ३ 'मूर्ध्नः प्रति०' इति क-पाठः। ४'प्रतिभासस्य प्रहणः' इति ग-पाठः।