________________
स्वोपज्ञव्याख्यामुनि चन्द्रीयविवरणयुतम्
(मूलम् )
शक्रमूर्धप्रतिभासजो धूमप्रतिभास एव । किं न तथासंवेद्यमानोsपि ? तत्त्वतो भ्रान्तिसंवेदनात् । किमन्यस्य तत्संवेदनादधिकं रूपम् ? ननु विशिष्टहेतुजन्यत्वम् । का पुनर्हेतोर्विशिष्टता ? अग्नि- ५ प्रतिभासजननसामर्थ्यम् । न हि न तत् तथा शक्रमूर्धप्रतिभासस्यापीत्युक्तम् । न च तत्र नियमेनेति वक्तुं युक्तम्, इतरस्या (? त्रा) पि तुल्यत्वात् । न हि प्रतिभासान्तरादपि धूमप्रतिभासोत्पत्ती नियम( खो० व्या० )
अधिकारः ]
१०५
चेत्, एतदाशाह तद्विकारतदन्याग्निनिभसोपपत्तेः शक्रमूर्धविकारात् १० तदन्यानिनिर्मासोपपत्तेः कारणात् उक्तमेवेति-अभिहितमेवेति । एतदुक्तं भवतिशक्रमूर्भोऽपि धूमवत् तदन्याग्निनिर्मासोऽपि क्वचिद् भवत्येव । आह-न शक्रमूर्धप्रतिभासजो धूमप्रतिभास एव तदाभासत्वादित्यभिप्रायः । अत्रोत्तरम् - किं न तथा - धूमप्रतिभासतया संवेद्यमानोऽपि । आह-तत्त्वतः - परमार्थेन भ्रान्तिसंवेदनात् नेति । अत्रोत्तरम् - किमन्यस्य - अभ्रान्तस्य तत्संवेदना - १५ धिकं धूमप्रतिभासवेदनातिरिक्तं रूपम् ? । आह- ननु विशिष्टहेतुजन्यत्वमधिकं रूपमित्यत्रोच्यते । का पुनर्हेतोः प्रस्तुतस्य विशिष्टता ? । आहअग्निप्रतिभासजननसामर्थ्यं विशिष्टता इह समाधिः । न हि न तत्अग्निप्रतिभासजननसामर्थ्यं तथा कचित् तद्भावने शक्रमूर्धप्रतिभासस्यापि । किं तर्हि ? अस्त्येव इत्युक्तम् । इहैवाभ्युच्चयमाह न चेत्यादिना । न च-न २० तत्र शक्रमूर्धप्रतिभासे नियमेन अधिकृतसामर्थ्यमिति एवं वकुं युक्तम् । कुत इत्याह- इतरत्रापि - अभिप्रेतहेतौ तुल्यत्वात् कारणात् । एतद्भावनायाहन हीत्यादि । न हि प्रतिभासान्तरादपि परहेतुत्वाभिमताद् धूमप्रतिभासो( विवरणम् )
I
(१०) शक्रमूर्धविकारादिति । (११) तदम्याग्निनिर्भासोपपत्तेरिति । शक्रमूर्ध्ना १५ विकारस्तस्मादनन्तरं तदन्यस्य - केवलधूमाव लोककप्रमादै विलक्षणस्य प्रमातुरनिनिर्भासोपपन्तेः । सदयमभिप्रायः कोऽपि प्रमाता शक्रमूर्ध्नोऽनन्तरं धूमं पश्यति, तदनु चान्यत् किश्चित् । अन्यस्तु प्रमाता प्रथमतः शक्रमूर्द्धानं वेदयते, तदनु तद्विकार धूमनिर्भासम् । ततश्च तत्रैव प्रदेशे प्रस्तावायातमनमिनिर्भासं वेदयते इत्यस्ति शक्रमूर्ध्नः परम्परयाऽग्निनिर्भासजननसामर्थ्यमिति ॥
१ 'भ्रान्तः संवेदनात्' इति ङ-पाठः । २ ' एवं युक्तः कुत' इति ङ-पाठः । ३ 'विलक्षप्र. मातु०' इति ख- पाठः ।
अनेकान्त० १४
३०