________________
१०४
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) एवं च शक्रमोंऽपि तद्भावाविरोधः, तस्यानग्निनिर्भासवदनग्नेरपि धूमजननवभावत्वात् । अनग्निनिर्भासोऽग्निनिर्भासजननसमर्थ ५ इति चेत्, न, ततो धूमनिर्भासभावविरोधात् । नानन्तरमेव, अपि
तु पारम्पर्येणेत्यविरोध इति चेत्, कुतः किं न परम्परयेत्यसमाधिरेषः । व्यवहारकालभाव्यत्र पारम्पर्य न दीर्घतरमिति चेत्, शक्रभूर्भोऽप्यग्निभावे सम्भवत्येवैतत्, कथं पुनरेतदेवमिति स्पष्टमभिधीयतामिति चेत्, तद्विकारतदन्याग्निनिर्भासोपपत्तेरुक्तमेवेति । न
(खो० व्या०) एवं च कृत्वा शक्रमूर्भोऽपि सकाशात् प्रतिभासरूपात् तद्भावाविरोध:धूमप्रतिभासभावाविरोधः । कुत इत्याह-तस्य-शकमूर्भोऽनग्निनिर्भासवदिति निदर्शनम् , अनग्नेरपि धूमजननवभावत्वादिति । अनग्निनिर्भासोऽधिकृतः अग्निनिर्भासजननसमर्थः । इति चेत्, एतदाशङ्कयाह-न, तत:१५ अनग्निनिर्भासाद् धूमनिर्भासभावविरोधात् अनग्निनि सजननसामर्थ्येन इति भावः। नान्तरमेवानमिनिर्भासः अनग्निनिर्भासजननसमर्थः; अपि तु पारम्पर्येण सन्तानपरिणामत इत्यविरोधः। इति चेत्, एतदाशङ्क्याह-कुतः किं न परम्परया-संसारानादितया इत्यसमाधिरेषः। व्यवहारकालभाव्यत्र
पारम्पर्य गृह्यते, न दीर्घतरं-संसारानादिताख्यम् । इति चेत्, एतदाशङ्कयाह२० शक्रमोंऽप्यधिकृतात् अग्निभावे सति सम्भवत्येवैतद्-व्यवहारकालभावि पारम्पर्यम् । कथं पुनरेतत्-अधिकृतमेवमिति स्पष्टमभिधीयताम् । इति
(विवरणम्) (११) शक्रमूर्भोऽपीति । वल्मीकात् ॥
(१२-१३) अनग्निनिर्भासवदिति निदर्शनमिति । यथाहि प्रयोगकाले प्राच्यात् २५ अननिरूपात् प्रतिभासाद्-धूमप्रतिभासाद् धूमप्रतिभासः समजनि, एवं शक्रमोऽपि भवतु, तस्याप्यनग्नित्वात् ॥
(१३) अनन्नेरपीति । अनग्नेरपि-पावकविलक्षणस्यापि सतः शक्रमूर्धः ॥
(१५) अनग्निनिर्भासजननसामर्थ्य नेति । अग्निनिर्भासजनने समर्थोऽग्निनिर्भासजननसमर्थः, तस्य भावोऽग्निनिर्भासजननसामर्थ्य तेन । यद्यधिकृतोऽनग्निनिर्भास३० जननसमर्थस्तदा कथं ततो धूमप्रतिभासः प्रादुःष्यादिति ? ॥
१ तद्भावानिरोधः' इति ग-पाठः। १ 'जनमसमर्थस्तदा सामर्थेनेति' ति क-पाठः ।