________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) र्भासस्य कारणभूतो ज्ञानसन्तान उत्तरोत्तरक्षणपरिणामेन अग्निनिर्भासस्य हेतुरित्येवमनुमानात् ॥
एवं चार्थक्रियार्थिनोऽपि प्रवृत्तिरविरुद्धा, प्रतिबन्धकाभावे दाह- ५ पाकादिनिर्भासहेतुरग्निनिर्भासो भविष्यति अत्र इत्येवमभिप्रायस्य प्रवृत्तेरिति । अत्रोच्यते-यत्किञ्चिदेतत् ,उपपत्तिविरोधात्, लिङ्गभूतधूमनिर्भासस्य अनग्निनिर्भासान्तरादप्युत्पत्ती अग्निनिर्भासजन्यत्वनियमाभावात्, अग्निनिर्भासजन्यखभावस्य सकृदप्यन्यतोऽभावात्, भावे तत्स्वभावत्वहानिः॥
(खो० व्या०) एवानुमितो भवति । एवमूर्द्धमप्यग्निनिर्भासप्राप्तिः कार्याच र(१)कारणानुमान धूमनिर्भासस्य कारणभूतो विज्ञानसन्तान उत्तरोत्तरक्षणपरिणामे: नाग्निनिर्भासस्य हेतुरित्येवमनुमानात्, कारणधर्मानुमानादित्यर्थः ।।
एवं चेत्यादि । एवं च-कारणधर्मानुमानत एव अर्थक्रियार्थिनोऽपि-१५ पुरुषस्य प्रवृत्तिरविरुद्धा। कथमित्याह-प्रतिबन्धकाभावे दाहपाकादिनिर्भासहेतुः अग्निनिर्भासो भविष्यत्यत्र इत्येवमभिप्रायस्य-प्रमातुः प्रवृत्तेरिति । एतदाशयाह-अत्रोच्यते-यत्किञ्चिदेतत्-असारमनन्तरोक्तम् । कुत इत्याह-उपपत्तिविरोधात् । एनमेवाह लिङ्गभूतेत्यादिना । लिङ्गभूतधूमनिर्भासस्य अनग्निनिर्भासान्तरादप्युत्पत्तौ सत्याम् । किमित्याह-अग्नि-२० निर्भासस्य जन्यत्वनियमाभावात् । अभावश्च अग्निनिर्भासजन्यखभावस्य धूमनिर्भासस्य सकृदपि-एकमपि वारं अन्यत:-प्रतिभासान्तरात् अभावात्। भावेऽन्यतः किमित्याह-तत्वभावत्वहानि:-अग्निनिर्भासजन्यस्वभावत्वहानिः प्रस्तुतधर्मनिर्भासस्य ॥
(विवरणम्) (१४) कारणधर्मानुमानादिति । धूमप्रतिभासस्य यः कारणभूतः प्राच्यविज्ञानसन्तानस्तस्यायं धूमो यदुत सन्तानपरिणामेन पावकप्रतिभासं जनयिष्यतीति ततः कारणधर्मस्यानुमानं कारणधर्मानुमानं तस्मात् ।।
-
-
१ 'भावहानिः' इति ग-पाठः । २ 'अमग्निः' इति च-पाठः।