________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) लिङ्गभूतधूमनिर्भासस्य पूर्वभाव्यनग्निनिर्भासादपि विशिष्टादुत्पत्तिः सफलैव । तथाहि-यदाप्यनग्निनिर्भासानन्तरं धूमनिर्भासः संवेद्यते प्रतिदापि अग्निनिर्भासजननसमर्थमालयाख्यमेव विज्ञानं धूमनिर्भासहेतुः, तस्मात् सन्तानपरिणामेनाग्निनिर्भासजननसमर्थाद् विज्ञानसन्तानादुत्पन्नो धूमनिर्भासः कारणभूतस्य विज्ञानसन्तानस्याग्निनिर्भासजननसामर्थ्य मनुमापयति । एवं च कार्यात् कारणमेवानुमितं भवति।धूमविज्ञाने खोपादानं पूर्वकं विज्ञानमग्निनिर्भासजननसमर्थ० मनुमापयताऽर्थतो भाव्यग्निनिर्भास एवानुमितो भवति, धूमनि
(स्वो० व्या०) अतिप्रसङ्गन्यावृत्तिमाह-इति-एवं लिङ्गभूतधूमनिर्भासस्य पूर्वभाव्यनग्निनिर्भासादपि विशिष्टात्-सन्तानपरिणामेन तज्जननसमर्थात् उत्पत्तिः स
फलैव-सप्रयोजनैव । एतद्भावनायैवाह-तथाहीत्यादि । तथाहीति पूर्ववत् । यदा१५ प्यनग्निनिर्भासानन्तरं क्वचित् धूमनिर्भासः संवेद्यते तदापि-तस्मिन्नपि काले अग्निनिर्भासजननसमर्थमालयाख्यमेव विज्ञानं-चित्रप्रवृत्तिविज्ञानकारणं धूमनिर्भासहेतुः। यस्मादेवं तस्मात् सन्तानपरिणामेनाग्निनि
आँसजननसमर्थात् कुत इत्याह-विज्ञानसन्तानात् सकाशात् । किमित्याह-उत्पन्नो धूमनिर्भास: कारणभूतस्य सामान्येन विज्ञानसन्तानस्य। २० किमित्याह-अग्निनिर्भासजननसामर्थ्यमनुमापयति । एवं च किं सिद्धं
भवतीत्याह-कार्यात् कारणमेवानुमितं भवति । कथमूर्द्धमग्निनिर्भासप्राप्तिरित्येतदाह धूमविज्ञानेत्यादिना । धूमविज्ञानेनाधिकृतेन खोपादानं-खकारणभूतं किमित्याह-पूर्वकं विज्ञानं सामान्येन अग्निनिर्भासजननसमर्थ सन्तानपरिणामेनैव अनुमापर्यंता सताऽर्थतः-सामर्थ्येन । किमित्याह-भाव्यग्निनिर्भासः
(विवरणम्) . (१२) अतिप्रसङ्गव्यावृत्तिमाहेति । बाह्यधूमाभावे किमिति सर्वज्ञानानन्तरं धूमप्रतिभासो न भवतीत्येवंरूपो योऽतिप्रसङ्गस्तस्य व्यावृत्तिमाह ॥
(१२-१३) पूर्वभाव्यनग्निनिर्भासादिति । पूर्वभाव्यनग्निनिर्भासादिति पूर्वभावीधूमप्रतिभासप्राकालभावी स चासावनग्निनिर्भासश्च पूर्वभाव्यनग्निनिर्भासस्तस्मात् ।। ३० (१३) तज्जननसमर्थादिति । अग्निप्रतिभासजनने सहि(?मर्थात्)॥ । १ 'तथाप्यमि०' इति क-पाठः । २ 'खोपादानपूर्वकं' इति ग-पाठः। ३ 'समर्थनात्' इति क-पाठः। ४ 'समर्थनात् कुतः' इति क-पाठः। ५'यतः सतोऽर्थतः' इति अ-पाठः। ६ 'सामर्थ्य न किमित्याह' इति क-पाठः। ७ 'जनसहिता । कारण.' इति ख-पाठः ।