________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) चारसम्भवात्, नावश्यं कारणानि तद्वन्ति भवन्तीत्यभ्युपंगतत्वाद् व्यभिचाराच ॥ . स्यादेत धूमनिर्भासो न सर्वस्माज्ज्ञानादुत्पद्यते, किन्तु यद् विज्ञा-५ नमग्निनिर्भासस्य सन्तानपरिणामेन उत्पादनसमर्थ तत एव । न ह्यग्निनिर्भासस्थाकारणभूतं कचिद् धूमनिर्भासकारणत्वेन दृश्यते, महानसादावग्निनिर्भाससहितस्यैव धूमनिर्भासस्य समुपलम्भात् । एवं च नाग्निनिर्भास एव धूमनिर्भासकारणम् । किं तर्हि ? अग्निनिर्भासजननसमर्थं निर्भासान्तरमपि। एतदपि तत्समर्थमेव नान्यदिति ।
(स्वो० व्या०) अग्निप्रतिभासगतिरिति चेत्। एतदाशङ्कयाह-न, व्यभिचारसम्भवात् । सम्भवश्व नावश्यं कारणानि तद्वन्ति भवन्तीत्यभ्युपगतत्वाद् व्यभिचाराच । धूमप्रतिभासादनग्निप्रतिभासोऽपि दृश्यत एवेति व्यभिचारः ॥"
स्थादेतद् धूमनिर्भासो न सर्वस्माज्ज्ञानादुत्पद्यते सामान्येन, किन्तु १५ यद् विज्ञानमग्निनिर्भासस्य, अन्याकारस्य विशिष्टस्य विज्ञानस्येत्यर्थः, सन्तानपरिणामेन-प्रबन्धवृत्त्या उत्पादनसमर्थं तत एव उत्पद्यत इति । भावनामाह न हीत्यादिना। न हि अग्निनिर्भासस्याकारणभूतं विज्ञानं कचिद धूमनिर्भासकारणत्वेन दृश्यते, सन्तानपरिणामेनेति प्रक्रमः । कथमित्याहमहानसादावित्यादि, महानसादावित्यत्र 'आदि'शब्देन दवाग्निपरिग्रहः, अग्नि-२० निर्भाससहितस्यैव धूमनिर्भासस्य समुपलम्भात् कारणात् । 'एवं
चेत्यादि । एवं च कृत्वा नाग्निनिर्भास एव-केवलो धूमनिर्भासकारणम् । किंतर्हि ? अग्निनिर्भासजननसमर्थ सन्तानपरिणामेन निर्भासान्तरमपि। एतदपि-निर्भासान्तरं तत्समर्थमेव-धूमनिर्भासजननसमर्थमेव । नान्यदित्यनेन
(विवरणम्) (१३) तद्वन्तीति । कार्यवन्तीति । अभ्युपगममात्रमेवेदं भविष्यति यदुत नावश्यं कारणानि तद्वन्ति भवन्ति । व्यभिचारस्तु न भविष्यतीत्याह-(१३) व्यभिचाराचेति । व्यभिचारमेव भावयन्नाह-(१४) धूमप्रतिभासादग्निप्रतिभासोऽपि दृश्यत एवेति व्यभिचार इति । वल्मीकोद्भवाद् धूमप्रतिभासाद् दृश्यत एवानग्निप्रतिभास इति स्पष्ट एव व्यभिचारः ॥
१ 'पगमाद् व्यभिः' इवि क-पाठः। २ 'स्यादेतद्रूपनि सो' इति क-पाठः। ३ 'एवेत्यादि एवं च' इति क-पाठः।