________________
१००
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) भावात्, तथासंवित्तेः पश्चाद्भावित्वात् । अनग्निप्रतिभासजोऽप्येवं धूमप्रतिभासः स्यात्, लिङ्गभूतस्यास्य न्यायतः पूर्वमग्निप्रतिभासा५ सिद्धेः । तथाहि-अन्तयिवादिनोऽप्यनुमानकाले धूमप्रतिभास एव पूर्वमुत्पद्यते, नाग्निप्रतिभासः, अनुमानाप्रवृत्तेः, अनुमेयस्यैव प्रत्यक्षस्वादिति पूर्वोऽनग्निप्रतिभास एव । एवं च कार्यात् कारणगत्ययोगः । धूमप्रतिभासोऽग्निप्रतिभासहेतुस्ततस्तद्गतिरिति चेत्, न, व्यभि
(स्वो० व्या) १० प्रतिभासाभावात् । अभावश्च तथासंवित्तेः-योगपद्येनोभयासंवित्तेः ।
असंवित्तिश्च पश्चाद्भावित्वात् प्रयोगकालेऽग्निप्रतिभासस्य । यदि नामैवं ततः किमित्याह-अनग्निप्रतिभासजोऽप्येवं धूमप्रतिभासादग्निप्रतिभासस्य उत्पत्तौ सत्यां धूमप्रतिभासः स्यात् प्रयोगकालभावी । कुत इत्याह-लिङ्गभूतस्यास्यधूमप्रतिभासस्य न्यायत:-न्यायेन पूर्वमग्निप्रतिभासासिद्धेः। अनग्निप्रतिभास१५ जत्वमिति । एतत्प्रकटनायैवाह-तथाहीत्यादि । तथाहि-अन्तर्जेयवादिनोऽपिविज्ञानवादिनः अनुमानकाले प्रयोगमधिकृत्य धूमप्रतिभास एव पूर्वमुत्पद्यते लिङ्गभूतो नाग्निप्रतिभासः। कुत इत्याह--अनुमानाप्रवृत्तेः। अप्रवृत्तिश्च अनुमेयस्यैव प्रत्यक्षत्वात् । इति-एवं पूर्वोऽनग्निप्रतिभास एव प्रयोगकालभाविनो धूमप्रतिभासस्य । एवं च कृत्वा कार्यात् कारणगत्ययोगः प्रयोग२० कालभाविनो धूमप्रतिभासस्याग्निप्रतिभासजन्यत्वादित्यर्थः । धूमप्रतिभासः अधिकृतः किल अग्निप्रतिभासँहेतुस्ततः-धूमप्रतिभासात् तद्गतिः इति चेत्
(विवरणम्) (१४) पूर्वमग्निप्रतिभासासिद्धेरिति । प्रयोगकाले धूमप्रतिभासात् पूर्वमानन्तयेणाग्निप्रतिभासो नास्त्येवेत्यर्थः ॥ २५ (१७) अनुमानाप्रवृत्तेरिति । धूमप्रतिभासाद् यदि पूर्वमप्यग्निप्रतिभासः स्यात् तदा किमनुमानेनेत्यर्थः ॥
(१८) अनुमेयस्यैव प्रत्यक्षत्वादिति । अनुमेयस्यैव-अग्निप्रतिभासस्य ।। (२१) किलाग्निप्रतिभासहेतुरिति । किलेल्याप्तप्रवादसूचनार्थः। अमिप्रतिभासस्य हेतुरग्निप्रतिभासहेतुः । अयमभिप्रायः-योऽयं प्रयोगकाले धूमप्रतिभासः (स) आत्मक्ष३० णानन्तरमेवाग्निप्रतिभासं जनयिष्यतीति कृत्वा धूमप्रतिभासादग्निप्रतिभासगतिरिति ।।
१ 'अद्वयवादिनो' इति क-पाठः। २ पूर्वो नाग्नि.' इति ग-पाठः। ३ 'कार्यकारण' इति ङ-पाठः । ४ 'हेतुभूतो धूम.' इति उ-पाठः।