________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) एतेन ज्ञापकव्यवस्था प्रत्युक्ता, धूमादग्निप्रतिपत्त्ययोगात्, अयं धूमोऽयमग्निरिति निर्भासाभावात्, तमन्तरेण च तथाप्रतीत्यनुप. पत्तेः, अद्वयबोधमात्रस्य च गगनतलवालोककल्पत्वादिति । ५ एवं च यदाह न्यायवादी
"वीजादङ्घरजन्माग्ने—मात् सिद्धिरितीदृशी। बाह्यार्थाश्रयणी याऽपि कारकज्ञापकस्थितिः ॥ साऽपि तद्रूपनिर्भासा तथा नियतसङ्गमाः।
बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ? ॥३ इत्यादि, तदसाम्प्रतमिति दर्शितं भवति ॥ __ इतश्च ज्ञापकस्थितिः अयुक्ता, धूमप्रतिभासकालेऽग्निप्रतिभासा
(स्वो० व्या०) त्वन्नीत्या । कुत इत्याह-उत्पत्त्याद्यसिद्धेः । इति-एवं न 'बीजादडरस्य जन्म । इति-एवं कारकव्यवस्था त्वन्नीत्येति भावनीयम् ॥
एतेनेत्यादि । एतेन-अनन्तरोदितेन निर्भासनिषेधेन ज्ञापकव्यवस्था प्रत्युक्ता । कथमित्याह-धूमादग्निप्रतिपत्त्ययोगात् । अयोगश्च अयं धूमोश्यमग्निरिति निर्भासाभावात् त्वन्नीत्या, तमन्तरेण च-निर्भासं विना च तथाप्रतीत्यनुपपत्तेः-धूमादग्निप्रतीतिरूपतया प्रतीत्यनुपपत्तेरिति । इहैव भावार्थमाह-अद्वयबोधमात्रस्य गगनतलवालोककल्पत्वानिराकारतयेति । २० एवं च कृत्वा यदाह न्यायवादी-धर्मकीर्तिः तदसाम्प्रतम्-अशोभनमिति दर्शितं भवतीति योगः। किं तदित्याह-बीजादङ्कुरजन्म तथाऽग्ने मात् सिद्धिः इतीदृशी-एवम्भूता बाह्यार्थाश्रयणी याऽपि कारकज्ञापकस्थितिःसाऽपि तद्रूपनिर्भासा-बीजादिरूपनिर्भासा तथा नियतसंङ्गमाः पौर्वापर्योत्पादादिना बुद्धीः आश्रित्य कल्प्येत यदि किं वा विरुध्यते ? न किञ्चि-२५ दित्यर्थः । इत्यादि तदसाम्प्रतमिति निदर्शितं भवतीति व्याख्यातमेतत् ।। अभ्युच्चयमाह-इतश्च ज्ञापकस्थितिरयुक्ता, धूमप्रतिभासकालेऽग्नि
(विवरणम्) (१४) उत्पत्त्याद्यसिद्धेरिति । भवन्मते हि अवस्तुत्वान्निर्भासस्य नोत्पत्ति-नाशी स्तः । यस्य चोत्पाद-व्ययौ न विद्यते तदसदेव यथा खरविषाणम् । तथा च बौद्ध-३० मते सर्वोऽपि निर्भास इति असत्त्वमेव तस्य ॥
१ अनुष्टुप् । २ 'सद्रूपनिर्भासा' इति क-पाठः। ३ अनुष्टुप् । ४ 'बीजादकुदंकरस्य' इति स-पाठः। ५ 'संसमाः' इति उ-पाठः । ६ 'भामृत्य सांकल्पेत या(य)दि तत् किं' इति स-पाठः।