________________
· अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) चार्थक्रियारूपत्वात् , असतस्तादर्थ्यायोगादिति। असचन्द्रद्वयं प्रतीयत इति चेत्, असत् प्रतीयत इति च व्याहतम् । के तर्हि तत् ५सत् ? ननु तत्प्रतीतौ । किमन्न मानम् ? तदनुभव एव । तदसत्त्वे को दोषः ? तदनुभवाभावः। कुतस्तर्हि तत् ? खहेतुजातात् । किं पुनः तदस्य ? बोधादृष्टविषयादि । कथं तर्हि भ्रान्तम् ? अदृष्टाध्यारोपात् । यद्येवं नास्ति तत्त्वत इति चेत्, न, अध्यारोपग्रहणरूपतया
भावात् । इति सती च सनिबन्धना च सन्नीत्या सर्वलोकप्रतीतिः । १० असंश्च बीजाङ्कुरनिर्भासः त्वन्नीत्या, उत्पत्त्याद्यसिद्धः। इति न बीजात् अङ्करस्य जन्मेति कारकव्यवस्था ।
(स्वो० ब्या०) भूतश्च परनीत्याऽधिकृतनिर्भासः । तथाव्यवहारायाभिधीयत इति विशेषणेनैनमवयवमधिकृत्याह-व्यवहारस्य चार्थक्रियारूपत्वात् , असतो निर्भासस्य ताद१५ायोगात्-व्यवहारार्थायोगादिति। इहैव आशङ्काशेषनिवृत्त्यर्थमाह-असचन्द्रद्वयं प्रतीयत इति चेत्, एवमधिकृतनि सोऽपि भविष्यतीति पराभिप्रायः । एतदाशझ्याह-असत् प्रतीयत इति च व्याहतम् । न सर्वथाऽसतः प्रतीतिरित्यर्थः । क तर्हि तत्-चन्द्रद्वयं सदिति परः। ननु तत्प्रतीतौ-चन्द्रद्वयप्रतीतावित्याचार्यः । किमत्र मानमिति पर एव (?आह) । तदनुभव एवेति २० सिद्धान्तवादी । तदसत्त्वे-चन्द्रद्वयासत्त्वे को दोषः? । अत्रोत्तरम्-तदनु
भवाभाव:-चन्द्रद्वयानुभवाभावः। कुतस्तर्हि तत्-चन्द्रद्वयं बहिरसदित्यमिप्रायः । इह समाधिः-खहेतुजातात् तदिति । किं पुनस्तत्-हेतुजातं अस्यबोधप्रतिभासिनश्चन्द्रद्वयस्य ।। अत्र निर्वचनम्-बोधादृष्टविषयादि । 'आदि'शब्दाद् देशकालादिग्रहः । एतदभावेऽभावादिति भावः । कथं तर्हि भ्रान्तं २५ हेतुजातोद्भवं सदित्यभिप्रायः । अत्रोत्तरम्-अदृष्टाध्यारोपात, कर्मसामर्थेन विपर्ययादित्यर्थः । यद्येवमदृष्टाध्यारोपात् नास्ति तच्चन्द्रद्वयं तत्त्वतः । इति चेत्, एतदाशयाह-न, अध्यारोपग्रहणरूपतया-आधिक्यग्रहणरूपतया भावात् । इति-एवं सती-विद्यमाना सनिबन्धना च-चित्रनिबन्धनापेक्षया च सन्नीत्या सर्वज्ञप्रणीतया सर्वलोकमतीतिः। असँश्च बीजाकुरनिर्भास: १ 'कुतस्तर्हि तत्' इति क-पाठः। १ विशेषणेनैतमव०' इति ङ-पाठः । ३ 'न तु' इति
क-पाठ:1