________________
९७
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
९७ (मूलम्) लक्षणे च बुद्धी सर्वथा बोधमात्रत्वादद्वयत्वादविशिष्टबुद्धित्वेन तदन्यग्राहकबुद्धिशून्ये च' । इति प्रत्यक्षानुपलम्भा प्रवृत्तिरेव । न हि भिन्नकालभाविबुद्धिद्वयमन्वयविकलतयोपकारादिनिरपेक्षं तथावि- ५ धावध्यभावे तदितरावसायकमिति न स्वसंवेदनलक्षणयोरपि बुद्धयोः कार्यकारणभावावसाये समुपायः। ततश्च सोऽनयोर्वस्तुत्वादविरोधीत्यज्ञानाभिधानम् । तत्पृष्ठभावि विकल्पज्ञानमपि तथाविधवीजाङ्करनिर्भासाभावेन भवन्नीत्या असम्भव्येव, न ज्ञानहेतुरिति भावनीयम् । एवं च 'लोकप्रतीत्यनुसारतस्तु तथाव्यवहारायाभिधीयते ३० इति अपि वचनमात्रमेव, सर्वथाऽसतो लोकेऽप्यप्रतीतेः, तुच्छस्य अनुभवविरोधात्, अकार्यकारणभूतस्य च तुच्छत्वात् , व्यवहारस्य
(स्यो० व्या०) प्रायं-प्रायेणोक्तमधः । वक्ष्यते च ऊर्द्ध खसंवेदनलक्षणे च बुद्धी निर्विकल्पिके सर्वथा बोधमात्रत्वात् कारणात् अद्वयत्वात् ग्राह्यग्राहकाकारविरहेण अवि-१५ शिष्टवुद्वित्वेन तथा तदन्यग्राहकवुद्धिशून्ये च तथाऽभ्युपगमात् । इति-एवं प्रत्यक्षानुपलम्भा प्रवृत्तिरेव कार्यकारणभावे । एतदेव भावयति न होत्यादिना । न यस्माद् भिन्नकाल(भावि)बुद्धिद्वयं निरन्वयनाशतोऽन्वयविकलतया कारणेन उपकारादिनिरपेक्षम्-उपकारवासनानिरपेक्षमन्वय विकलतयैव तथाविधावध्यभावे-इतरेतरावध्यभावे तदितरावसायकं-स्वरूपेतरावसाय- २० कम् । नहि इति न स्वसंवेदनलक्षणयोरपि बुद्ध्योः कार्यकारणभावावसाये समुपायोऽस्ति । ततश्च सा-कार्यकारणभावः अनयोः-स्वसंवेदनलक्षणयोर्बुद्ध्योर्वस्तुत्वादविरोधीत्यज्ञानाभिधानं पूर्वपक्षे । तत्पृष्ठभाविखसंवेदनलक्षणबुद्धिपृष्ठभावि विकल्पज्ञानमपि तथाविधवीजाङ्करनिर्भासाभावेन भवन्नीत्या-त्वन्यायेनैव असम्भव्येव । विकल्पज्ञानं न ज्ञानहेतुः प्रक्र- २५ मात् कार्यकारणभावे इति एतद् भावनीयम्। एवं च कृत्वा 'लोकप्रतीत्यनुसारतस्तु तथाव्यवहारायाभिधीयते' इति अपि वचनमात्रमेव पूर्वपक्षे', विवक्षितार्थशून्यमित्यर्थः। कथमित्याह-सर्वथाऽसतो निर्भासस्य लोकेऽप्यप्रतीतेः कारणात् । एतदेवाह-तुच्छस्यानुभवविरोधात् । तुच्छश्चाधिकृतनिर्भासः परनीत्या । अत एवाह-अकार्यकारणभूतस्य च तुच्छत्वात् । अकार्यकारण-३०
१ 'त्वादविशिष्टे बुद्धिः' इति ग-पाठः । २ 'ज्ञाताभिधानम्' इति ग-पाठः । ३-४ द्रष्टव्यं ९५तमं पृष्ठं ९६तमं च।
अनेकान्त. १३