________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
अभिधीयत इति व्यवस्था । अहो बलवानयमसदभिनिवेशो य इत्थमप्यनालोचिताभिधानं विदुषोऽपि प्रवर्त्तयतीति । अनालोचिताभि५ धानता चास्य बीजादिनिर्भासो निश्चीयमान उपप्लवः स तत्त्वतो नास्तीति तन्निश्रयाभावापत्त्या । न खलु बोधेऽप्यसतो निश्चयः, अतिप्रसङ्गात्, खरविषाणादिनिश्चयापत्तेः, असत्त्वाविशेषात् । न च तत्र सत्त्व एवोपप्लवता, बोधादभिन्नत्वात्, तस्य चानुपलवत्वेनेष्टेः, भिन्नसत्वेऽर्थापत्तिः । विशिष्टो बोध एवोपप्लव इति चेत् तन्मात्र१० तत्वनीतौ कुतोऽस्य वैशिष्ट्यमित्युक्तप्रायम् । वक्ष्यते च - 'स्वसंवेदन( स्वो० व्या० ) निर्मासोद्धारणेन व्यवहारायाभिधीयत इति एवं व्यवस्था, कारकगोचरेति प्रक्रमः । एतदाशङ्कयाह- अहो बलवानसदभिनिवेशः यः - असदभिनिवेश हस्थमपि यथोक्तं तथाऽनालोचिताभिधानं विदुषोऽपि पण्डितस्यापि प्रव५ संयतीति । अनालोचिताभिधानता चास्य-परोदितस्य वीजादिनिर्भासो निश्चीयमानस्तथाऽनुभवेन उपप्लवः स तत्त्वतो नास्ति । इति एवं तन्निश्चयाभावापत्त्या - अनुभूयमान बीजादिनिर्भासनिश्चयाभावात्पत्त्या अनालोचिताभिधानतेति । एतद्भावनायैवाह - न खल्वित्यादि । न खलु-नैव बोधेऽप्यसतः, निर्भासस्येति प्रक्रमः । किमित्याह-निश्चयः । कथं नेत्याह-अतिप्रसङ्गात् । एनमेवाह१० खरविषाणादिनिश्चयापत्तेः । आपत्तिश्च-असत्वाविशेषात् । इहैवाभ्युच्चयमाह - न चेत्यादि । न च तत्र - बोधे सत्त्व एवोपप्लवता, निर्भासस्येति प्रक्रमः । कुत इत्याह- बोधादभिन्नत्वान्निर्भासस्य तस्य च बोधस्य अनुपप्लवत्वेनेष्टेः, भिन्नसत्वे बोधान्निर्भासस्य । किमित्याह - अर्थापत्तिः निर्मासानाम् । विशिष्टो बोध एव वितथप्रतिभास उपलवः । इति चेत्, एतदाशङ्कयाह२५ तन्माश्रतस्त्वनीती - बोधमात्रतत्त्वनीतौ कुतोऽस्य बोधस्य वैशिष्टयमित्युक्त( विवरणम् )
"
1
(२१) न च तत्र - बोधे सत्त्व एवोपलवता निर्भासस्येति । बोधे विषयभूते निर्भासस्य सत्त्वे एव - विद्यमानत्वे एव सति न च - नैवोपप्लवता निर्भासस्य ॥ (२३) अर्थापत्तिर्निर्भासानामिति । यदि हि बोधात् सकाशाद् भिन्ना निर्भासाः ३० समभ्युपगम्यन्ते तदा न बाह्यार्थी रूपा: ( ? ) प्राप्नुवन्तीत्यर्थः ||
९६
,
१ 'सत्त्वेनार्था ०' इति क- पाठः । इति पाठः ।
२ 'निर्भासोबारणेन' इति ङ-पाठः ।
[ पञ्चमः
३ ' एवोनिपता'