________________
९५
अधिकारः खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ). स्पष्टसंवेदनत्वात् अपहवेऽतिप्रसङ्गादिति ॥
किश्च विज्ञानमात्रवादिनो न कारकज्ञापकस्थितिः, न्यायानुपपत्तेः । तथाहि-अस्य न वीजाङ्कुरौ वस्तुतो विद्येते, किन्तु बीजाकुर- ५ प्रतिभासाया बुद्धाह्याकारे बीजाङ्कुरव्यवस्था । ग्राह्याकारश्च बुद्धः तत्त्वतो नास्ति, विप्लवत्वेनासत्त्वात् । तत् कथं तदाकारयोः कार्यकारणव्यवस्थानिवन्धनभूतयोरसत्त्वे बीजादङ्करस्य जन्मेति कारकव्यवस्था ? । स्यादेतद् वीजनि साया बुद्धेरनन्तरमेवाङ्कुरनिर्भासा बुद्धिरिति। बीजाङ्कुरनिर्भासानुगतयोद्ध्योः प्रत्यक्षानुपलम्भसाधन: १० कार्यकारणभावः। अयं च स्वसंवेदनलक्षणयोर्बुद्ध्योर्वस्तुत्वादविरोध्येव । बीजादिनि सस्तु विचाराक्षमत्वादुपप्लव एव । न तस्य तत्त्वतः कार्यकारणभावः । लोकप्रतीत्यनुसारतस्तु तथाव्यवहाराय
(स्वो० व्या०) अपहवे नीलादिभेदविषयस्य स्पष्टसंवेदनस्य । किमित्याह-अतिप्रसङ्गात् हादाद्य-१५ भावप्रसङ्गेन इति ॥
किञ्च विज्ञानमात्रवादिनो वादिनः किमित्याह-न कारकज्ञापकस्थितिः । कारकं बीजमङ्कुरस्य, ज्ञापकस्तु धूमोऽनेरिति । कथं नैतत्स्थितिरित्याह-न्यायानुपपत्तेः । एनामेवाह तथाहीत्यादिना । तथाहि-अस्यविज्ञानमात्रवादिनो न बीजाङ्करौ वस्तुत:-परमार्थेन विद्यते बाह्यौ, किन्तु २० बीजाङ्कुरप्रतिभासाया बुद्धेः ग्राह्याकारे-तथाप्रतिभासरूपे बीजाङ्कुरव्यवस्था । यद्येवं ततः किमित्याह-ग्राह्याकारश्च बुद्धस्तत्त्वतः-परमार्थेन नास्ति । कथमित्याह-विप्लवत्वेन हेतुना असत्वात् । तत् कथं तदाकारयोः-बुद्ध्याकारयोः कार्यकारणव्यवस्थानिवन्धनभूतयोरसत्त्वे-अतात्त्विके वीजादङ्करस्य जन्मेति-एवं कारकव्यवस्था। स्यादेतद् वीजनिर्भासाया २५ बुद्धेः अनन्तरमेवाङ्करनिर्भासा बुद्धिरिति कृत्वा। बीजाङ्कुरनिर्भासानु. गतयोर्बुद्ध्योः किमित्याह-प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः। अयं च कार्यकारणभावः खसंवेदनलक्षणयोर्बुद्ध्योर्वस्तुत्वात् कारणात् अविरोध्येव, वस्तु वस्तुन उत्पद्यत एवेति कृत्वा । बीजादिनि सस्तु किमित्याह-विचाराक्षमत्वाद् बाह्याभावेन उपप्लव एव । न तस्य-निर्भासस्य ३० तत्त्वतः कार्यकारणभावः, लोकप्रतीत्यनुसारतस्तु-पृथग्जनापेक्षया तथा
१ विषयस्पष्टः' इति ऊ-पाठः । १ 'धूमोऽग्निरिति' इति ङ-पाठः । ३ 'वस्तु' इति पाठो नास्ति उ-प्रती।