________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
तद्भिन्नात्मगमकस्तु । तदन्यानुविद्धं सत्त्वमिति युक्तो जातिभेदः । न चैवमन्यानुविद्धो बोध इति तन्मात्रतत्त्ववादे त्वयुक्त एव ॥ एतेन "नीलादिरूपस्तस्यासौ खभावोऽनुभवञ्च सः ।
नीलाद्यनुभवः ख्यातः स्वरूपानुभवोऽपि सन् ॥ २ इत्येतत् प्रत्युक्तम्, एकान्तैकस्वभावस्यात्र विवक्षितत्वात् तस्य चोक्तवदयोगात् । न च नीलत्वादिभेदाभाव एव, आह्लादादिवत् ( स्वो० व्या० )
"
१० योगः । आह-न तत्रापि - दूरोपलम्भे स केवलस्य सत्त्वस्य ग्रहः, केवलस्याभावादित्यभिप्रायः । इह समाधिः - सत्यं न तत्रापि स केवलस्य तद्भिन्नात्मगमकस्तु, प्रक्रमान्नीलादिभिन्नात्मगमकः पुनः दूरोपलम्भः सत्त्वस्य । उपसंहरन्नाह - तदन्यानुविद्धम्, नीलाद्यनुविद्धमित्यर्थः । सत्त्वमिति कृत्वा युक्तो जातिभेदः, प्रक्रमान्नीलादीनाम् । न चैवमन्यानुविद्धो बोध इति - एवं तन्मात्र१५ तत्त्ववादे - बोधमात्रतत्त्ववादे पुनरयुक्त इति परिभावनीयम् ॥ एतेनेत्यादि । एतेन - अनन्तरोदितेन
"नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः । नीलाद्यनुभवः ख्यातः खरूपानुभवोऽपि सन् ॥” इत्येतत् प्रत्युक्तम् । कथमित्याह - एकान्तैकस्वभावस्य बोधादेर्विवक्षित२० त्वात् तस्य च - एकान्तैकस्वभावस्य उक्तवत् यथोक्तं तथा अयोगात् । अभ्युच्चयमाह न चेत्यादिना । न च नीलत्वादिभेदाभाव एव । किं तर्हि ? भावः । कुत इत्याह- आह्लादादिवदिति निदर्शनम् । स्पष्टसंवेदनत्वान्नीलादिभेदस्य ( विवरणम् ) (१७-१८) " नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः । नीलाद्यनुभवः ख्यातः स्वरूपानुभवोऽपि सन् ॥”
९४
[ पञ्चमः
२५
I
इति । नीलादिरूपः - नीलपीतस्वभावस्तस्य- नीलादिज्ञानस्य असौ सर्वजगज्जनप्रतीतः स्वभावः–स्वरूपं तथाऽनुर्भवश्च - अनुभवोऽपि स्वसंवेदनलक्षणो हि ज्ञानस्य नीलादिरूप एव । एवं सति किं सिद्धमित्याह - नीलाद्यनुभवः ख्यातः - लोकप्रसिद्धः स्वरूपानुभावोऽपि सन् नीलादिज्ञानस्य सम्बन्धी । इदमुक्तं भवति - नीलादिज्ञानस्य नीलादि३० रूपः स्वभावोऽनुभवश्च; न तु बाह्यनीलाद्याकार: कश्चित् तन्त्रास्ति यद्वशात् नीलमुच्यते । अतो ज्ञानस्य स्वरूपानुभव एव नीलाद्याकार इति ॥
१ 'सत्यमिति युक्तो' इति क-पाठः । २ अनुष्टुप् । ३ ' तथापि स' इति ङ-पाठः । ४ 'लम्भसत्त्वस्य' इति क - पाठः । ५ ' इत्याह ह्रादादि ० ' इति ङ-पाठः । ६ 'भवश्चानुभावोऽनुभवोऽपि' इति क- पाठः । ७ 'हि ज्ञानस्य... भवति' इति पाठो नास्ति ख-च- प्रतौ । ८ 'ननु बाह्य ०' इति च - पाठः ।