________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) तदनुवेधः? सदा तदनुवेधे नासत्त्वम्, सत्त्वमेव । एवं तत् तथाविधं तदितरानुविद्धमित्यस्तु केवल एव पुनः को दोषः ? तन्मात्रतया न नीलादित्वम् ।
एवं हि न नीलमेव पीतम् । न च सत्त्वमात्रतत्त्वमेतत् । न चासदेव प्रतीतिहेतुः। प्रतीयते च तदन्यत्वेन । ततस्ततोऽन्यत् तदिति सिद्धम् । तन्मात्रताऽभावे तदेव तत्। तत्रैव किं मानमिति वाच्यम् । हन्त तथाऽनुपलम्भ एव । सोऽसिद्धो दूरोपलम्भेन । कोऽयम्? अनीलादिरूप इति । य एव तन्निश्चयाजनकः स मन्दो नीलादिग्रह १० एव, न, सत्त्वनिश्चयजनकत्वात् । न तत्रापि स केवलस्य, सत्यम् ,
(खो० व्या) नासत्त्वं नीलादीनां सत्त्वमेव । एवम्-उक्तनीत्या तत्-नीलादि तथाविधंविशिष्टम् । एतदाशङ्कयाह-तदितरानुविद्धं-नीलाद्यनुविद्धमित्यस्तु भवतु सत्त्वमेव केवल एव तदितराननुविद्धे सत्त्वे तथाविध इति प्रक्रमः । को दोष इत्याशङ्याह-१५ तन्मात्रतया-अविशिष्टसन्मात्रतया न नीलादित्वम् ।।
इदानीं निगमयन्नाह-एवं हीत्यादि । एवं यस्मात् न नीलमेव पीतम्, प्रतिभासभेदानुभवात् । न च सत्वमात्रतत्वमेतत्-नीलम् । न चासदेवएकान्तेन प्रतीतिहेतुः। प्रतीयते च तदन्यत्वेन सत्त्वमात्रभेदेन यत एवं ततःतस्मात् कारणात् ततः-सत्त्वमात्रात् अन्यन्नीलमिति सिद्धम् । तन्मात्रताऽ- २० भावे सति तदेव-नीलायेव तत्-नीलादि । एवमपि किलैकखभावत्वसिद्धिरित्येतदाशयाह-तत्रैव-सन्मात्रताभावे किं मानमिति वाच्यम् । हन्त किमत्रोच्यते ? । तथा-सन्मात्रत्वेन अनुपलम्भ एव मानमिति । एतदाशक्याह-स:-तथाऽनुपलम्भः । किमित्याह-असिद्धः । कथमित्याह-दूरोपलम्भेन सन्मात्रस्येति भावः । कोऽयं-दूरोपलम्भः? अनीलादिरूप इति परः ।२५ अत्रोत्तरम्-य एव तनिश्चयाजनकः-नीलादिनिश्चयाजनकः । आह-स मन्द:अस्पष्टो नीलादिग्रह एव । परिहारोऽत्र-न सत्त्वनिश्चयजनकत्वात् मन्दता.
(विवरणम्) (२०-२१) तन्मात्रताऽभावे सतीति । नीलादेः सन्मात्रतया अभावे सतीति ।। (२१) नीलायेव तत-नीलादीति । नीलं नीलमेव पीतं पीतमेव, एवं सर्वत्र ३० इत्थमप्येकस्वभावत्वमेव वस्तुन इत्यभिप्रायः परस्य ॥
१'तदन्यत्वे च त(?)सत्त्व.' इति हु-पाठः। २ 'एतन्मात्रताभावे सति तन्मात्रताभावे तदेव' इति -पाठः। ३ किमित्याह सिद्धः' इति ङ-पाठः ।