________________
अनेकान्तजयपताकाख्यं प्रकरणम् [ पञ्चमः
(मूलम्) भिन्नः,स चाविशिष्टः प्रतिकलं तुल्यस्वभावतयेति भिन्नजातीयेनास्य
भेद आपादनीय इत्यन्यसिद्धिः । तजातिभेदवत् किं नात्र स इति • ५ चेत्, नासौ सदादिमात्रस्य, नीलादीनां ततः कथञ्चिद् भेदात् तथा
प्रतीतेः। न हि सत्प्रतीतिरेव नीलादिप्रतीतिः, तथाऽननुभवात् । एवं तर्हि तुच्छा नीलादयः, न ते क्वचित् सदननुविद्धाः। स्वतोऽसतां कथं
(स्वो० व्या०) आह तत्वभाव इत्यादिना । तत्स्वभावः, प्रक्रमाद् बोधमात्रस्वभावः, यस्मात् ० न बोधमात्रात्मनः सकाशाद् भिन्नः । स च-बोधमात्रात्मा अविशिष्टः प्रतिकलं-कलां कलां प्रति तुल्यखभावतया कारणेन । व्यवस्थानमधिकृत्यैतदाह । अन्यथा कलाभेदोऽप्यसङ्गत एवेति भावनीयम् । इति-एवं भिन्नजातीयेन देशादिनाऽस्य-बोधमात्रात्मनः भेद आपादनीयः । इति-एवमन्यसिद्धिः, इह
प्रक्रमे नीलादिसिद्धिरित्यर्थः । तजातिभेदवत्-नीलादिजातिभेदवत् किं नात्र१५ बोधमात्रात्मनि स इति चेत् नीलादिभेदः। एतदाशयाह-नासौ-जातिभेदः
सदादिमात्रस्य । कथमित्याह-नीलादीनां ततः-सदादिमात्रात् कथश्चित्केनचित् प्रकारेण भेदाभेदश्च तथाप्रतीते:-सदादिमात्रप्रतीतेभैदेन नीलादिमात्रप्रतीतेः। एतदेवाह-न हि सत्प्रतीतिरेव नीलादिप्रतीतिः।कुत इत्याह-तथाऽननुभवात् , सत्प्रतीतेः नीलादिप्रतीतित्वेनाननुभवादित्यर्थः । आह-एवं तर्हि २० सदाद्यन्यत्वेन तुच्छा नीलादयः । एतदाशङ्कयाह-न ते-नीलादयः कचित्
सदननुविद्धाः । किं तर्हि ? सर्वत्र तदनुविद्धा एव । स्वतोऽसतां तुच्छतया कथं तदनुवेधः-सदनुवेधः? । एतदाशङ्याह-सदा तदनुवेधे-सदनुवेधे सति
(विवरणम्) (११) कलां कलां प्रतीति । समयं समयं प्रतीत्यर्थः ।। २५ . (११) व्यवस्थानमधिकृत्यैतदाहेति । वस्तुस्थितिमाश्रित्यैतदुच्यते यदुत प्रति
कलम् । कलाशब्देन हि समयः प्रोच्यते से चाचार्यमते एव घटते, न तु ज्ञानमानवादिनो मते ॥
(१४) नीलादिसिद्धिरिति । नीलपीतादिबाह्यार्थसिद्धिरित्यर्थः ॥ - (१४) नीलादिजातिभेदवदिति । तथापि-वस्तुत्वमात्रस्याभेदेऽपि 'नीलः पदार्थों ३० रक्तो वा इत्यादिर्जातिभेदो भवति, तथा यदि ज्ञानमात्रस्याभेदेऽपि बाह्यार्थमन्तरेणापि नीलं पीतं ज्ञानमित्यादि दो भविष्यति तदा को दोष इत्याशयः परस्य ॥
१ 'कलां प्रति' इति क-पाठः। २ 'भेदादभेदश्च' इति क-पाठः। ३ 'सर्वाचार्यः' इति चपाठः। ४ 'नीलाः पदार्थो रक्का वा' इति क-पाठः। ५ 'तदा यदि' इति च-पाठः ।