________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) वाक्यापत्तित उक्तदोषानतिवृत्तिरेव ॥
किञ्च बोधमात्रतायां तन्नीलत्वादिभेदाभावो भेदकाभावात्, तमन्तरेण च तदनुपपत्तेः बोधमात्रस्याविशिष्टत्वात् एकान्तैकख- ५ भावस्य विशिष्टत्वायोगात् तन्मात्रत्वात्; अन्यथा सर्वत्र बोधभावाभावादतत्वभावत्वात् स ह्यन्यत्र भवस्तन्मिश्रणान्नैकः अमिअणे तन्मात्रत्वम् । तथातत्वस्यैव तथाभेदाभावः, तत्वभावभेदापत्तेः।सति चास्मिस्तदन्यसिद्धिरेव । तत्स्वभावो हि न बोधर्मात्रात्मनो
(स्वो० व्या०) तथा शैठोपन्यस्तायां स्वप्रत्यक्षखभावमित्यादिवाक्यार्थापत्तितः कारणात् उक्तदोषानतिवृत्तिरेव कर्तृकर्मतायोगेनेति भावनीयम् ।। . किञ्च बोधमात्रतायां सत्यामेकान्तकस्वभावत्वेन तन्नीलत्वादिभेदाभावः तस्य-बोधमात्रस्य नीलत्वादिभेदाभावः । कुत इत्याह-भेदकाभावात् तमन्तरेण च-भेदकमन्तरेण च तदनुपपत्तेः-नीलत्वादिभेदानुपपत्तेः । अनुपपत्तिश्च बोध-१५ मात्रस्याविशिष्टत्वात् । विशिष्टं बोधमात्रमेवैतदित्याशङ्कानिरासायाह-एकान्तकखभावस्य, बोधमात्रस्येति प्रक्रमः । किमित्याह-विशिष्टत्वायोगात् । अयोगश्च तन्मात्रत्वात्-बोधमात्रतद्भावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे सर्वत्र-विवक्षितं देशं विहाय सामान्येन वा । किमित्याह-बोधभावाभावात् , बोधसत्तानुपपत्तेरित्यर्थः । एनामेवाह-अतत्वभावत्वात्, प्रक्रमा-२० देकान्तैकस्वभावत्वात् । कथमेतदेवमित्याह-स हीत्यादि । स बोधो यस्मात् अन्यत्र-देशादौ भवस्तन्मिश्रणात्-देशादिमिश्रणेन नैका-नैकान्तैकस्वभावः बोधत्वे सति तन्मिश्रणखभावत्वादित्यभिप्रायः । इत्थं चैतदङ्गीकर्तव्यमित्याहअमिश्रणे, देशादिनेति प्रक्रमः, तन्मात्रत्वं-बोधमात्रत्वम् । कथमित्याहतथेत्यादि । तथा तेन प्रकारेणाविशिष्टबोधमात्रभवनलक्षणेन तत्त्वं यस्य बोध-२५ मात्रस्य तत् तथाविधं तस्यैव तथा-देशादिभेदेन भेदाभावः। कुत इत्याहतत्स्वभावभेदापत्तेः-बोधमात्रस्वभावभेदापत्तेः। सति चास्मिन्-तत्स्वभावभेदे किमित्याह-तदन्यसिद्धिरेव-बोधान्यसिद्धिरेव । एनामेव व्यतिरेकतो भावयन्
(विवरणम्) (१८) बोधमात्रतद्भावादिति । बोधमात्रस्यैव तस्य-ज्ञानस्य भावात् ॥ ३० १ 'मात्रस्यापि विशिष्टः' इति क-पाठः । २ 'मात्रात्मनोऽभिन्नः' इति ग-पाठः। ३ 'शवोप०' इति ङ-पाठः। ४ 'भावबोधत्वे' इति ङ-पाठः।।