________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः _ (मूलम्) वैचित्र्येण कथञ्चित् कर्तृकर्मतायोग इति ॥
एतेन यदप्युच्यते-"गगनतलवालोकवदकर्मकं स्वयमेवैतत् ५ प्रकाशते” इत्यादि तदपि प्रतिक्षिप्तम्, यतो बोधरूपं तत् । न चावुद्ध्यमानस्य 'किश्चिद् बोधरूपता युज्यते इत्यात्मबोधोऽभ्युपेयः। तथा च सत्युक्तदोषानतिवृत्तिः स्वात्मसंवेदनादिति । एवं यथोक्तालोकेऽपि भावनीयम् । न ह्यसावपि किश्चिदनालोकयन
आलोको नाम । एवं चाभिधानमात्रमेवाकर्मकत्वमिति सन्याया४० सिद्धेः, आलोकनमालोक इति भावसाधनपक्षेऽपि खभावालोकनादिति । एवमपरोक्षस्वभावमित्याधुक्तावपि वप्रत्यक्षस्वभावमित्यादि
(स्वो० व्या०) केनचित् प्रकारेण कर्तृकर्मतायोग इति कर्तृकर्मभावयोगः ॥
एतेन-कर्तृकर्मतायोगसाधनेन यदप्युच्यते, किमुच्यते इत्याह-गगनतल५ वालोकवदिति निदर्शनम् । अकर्मकं-कर्मरहितं वयमेवैतत्, प्रक्रमाद् विज्ञानम्, प्रकाशते इत्यादि । तदपि प्रतिक्षिप्तं-निराकृतमिति । इहैव भावनामाह यत इत्यादिना । यतो बोधरूपं तत्-विज्ञानम् । न चाबुद्धयमानस्य किश्चित्-आत्मादिवस्तु बोधरूपता युज्यते इति कृत्वा आत्मबोधोऽभ्युपेयः । आत्मनो बोधः आत्मबोधः सोऽभ्युपेयः-अभ्युपगन्तव्यः । २० तथा च सति एवं च सति किमित्याह-उक्तदोषानतिवृत्तिः । भाविताएँ -
वेयम् । कथमित्याह-वात्मसंवेदनादिति । एवं यथोक्तालोकपिउदाहरणगते भावनीयम् । कथमित्याह-न हीत्यादि । न यस्मात् असावपि-गगनतलवालोकः किञ्चिदनालोकयन्नालोको नाम, शब्दार्थानुपपत्तेः ।
एवं चाभिधानमात्रमेव-तत्त्वतोऽर्थशून्यम् । किं तदित्याह-अकर्मकत्वम् , २५ विज्ञानस्य इति। कथमित्याह-सन्यायासिद्धेः। असिद्धिश्च आलोकनमालोक
इति-एवं भावसाधनपक्षेऽपि सति स्वभावालोकनात्-आत्मभावालोकनादित्यात्मन एव कर्मत्वम् , भिन्नकर्माभावं त्वधिकृत्य शान्दिकैरकर्मकत्वं प्रतिज्ञातम् । न तु तदेकान्तत एव स्वपरिणामापेक्षया चानन्तपर्याये वस्तुनि व्यतिरिक्तकर्मापेक्षयाऽपि कादिभावोऽव्यतिरिक्तकर्मापेक्षयाऽपीति । तथा च भज्यते वृक्षः स्वशाखाभारेणेत्यत्रा३० व्यतिरिक्तस्यापि स्वशाखाभारस्य करणत्वम् । न चेदं न तात्त्विकं वृक्षान्तरवदधिकृतवृक्षभङ्गाभावप्रसङ्गादिति भावनीयम् । एवमपरोक्षस्वभावमित्याधुक्तावपि तथा १ 'अविताथै०' इति ङ-पाठः।