________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) किश्चैवं परिकल्पिताद्वयरूपत्वे तत्त्वतोऽनुभूयरूपत्वासिद्धिरेव, खात्मसंवेदनात् कर्तृकर्मभावोपपत्तेः, अन्यथा तदयोगात् । न ह्यात्मन आत्मनाऽवेदने स्वसंवेदनं नाम। वेदने तु तच्चित्रखभावता, ५ तस्यैव ग्राह्यग्राहकरूपत्वादिति । स्वात्मनि क्रियाविरोध इति चेत्, न, तथाऽनुभवे तदसिद्धेः । कथं तदसिद्धिरिति चेत्, विरोधे तंदयोगापत्तेः। तदयोगेऽपि किमिति चेत् , ननु च तदनुभवाभावः। तत् खहेतोरेव तादृगिति चेत्, किमनेनान्वयकथनेन ? सर्वथाऽसंवेद्यासंवेदकस्वभावत्वे न स्वसंवेदनम् । सति चास्मिन् नियमतः स्वभाव-१०
(खो व्या) किश्चेत्यादि । किञ्चायमपरो दोषः । एवं परिकल्पिताद्वयरूपत्वेऽपि सति यथा भवतोक्तं तथा । किमित्याह-तत्त्वत:-परमार्थेन अनुभयरूपत्वासिद्धिरेव । कथमित्याह-वात्मसंवेदनात्-स्वात्मसंवेदन, विज्ञानस्येति प्रक्रमः, कर्तृकर्मभावोपपत्तेः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे १५ तदयोगात्-स्वात्मसंवेदनायोगात् । एतदेव भावयति न हीत्यादिना । न यस्मात् आत्मनः-विज्ञानात्मनः आत्मनैव अवेदने सति । किमित्याह-स्वसंवेदनं नाम । वेदने तु स्वात्मनः किमित्याह-तचित्रवभावता, प्रक्रमाद् विज्ञानस्य चित्रस्वभावता । कुत इत्याह-तस्यैव-विज्ञानात्मनो ग्राह्यग्राहकरूपत्वादिति । खात्मनि क्रियाविरोध इति चेत् । न हि सुशिक्षितोऽपि कश्चित् खं स्कन्धमा-२० रोहति । एतदाशङ्कयाह-न-नैतदेवं तथाऽनुभवे-स्वसंविदितत्वेन खात्मनाऽनुभवे सति तदसिद्धेः-स्वात्मनि "क्रियाविरोधासिद्धेः । कथं तर्हि असिद्धिरिति चेत् स्वात्मनि क्रियाविरोधस्य । एतदाशङ्याह-विरोध इत्यादि । विरोधे सति स्वात्मनि क्रियायाः तदयोगापत्तेः, प्रक्रमात् कर्तृकर्मभावायोगापत्तेः तदयोगेऽपि-कर्तृकर्मभावायोगेऽपि किम् ? इति चेत्, एतदाशयाइ-ननु २५ चेत्यादि । ननु चेत्यक्षमायाम् । तदनुभवाभाव:-विज्ञानानुभवाभावः । तत्विज्ञानं स्वहेतोरेव सकाशात् तादृगिति-स्वसंवेदनखभावम् । इति चेत्, एतदाशक्याह-किमनेनेत्यादि । किमनेन स्वहेतोरेवेत्यादिना अन्वयकथनेन, गोत्रकथनेनेत्यर्थः । कथमिदमनुपयोगीत्याह-सर्वथेत्यादि । सर्वथा-सर्वैः प्रकारैरसंवेद्यासंवेदकखभावत्वे वास्तवे विज्ञानस्य न खसंवेदनं निरूप्यतामेतत् । ३० सति चास्मिन्-स्वसंवेदने नियमतः स्वभाववैचित्र्येण हेतुना कथश्चित्
१ 'रूपत्वे सति तत्त्वतो' इति क-पाठः। २'तदयोगोपपत्तेः' इति ग-पाठः। ३'स्वसंविदिततत्त्वेन' इति क-पाठः। ४ 'क्रियामविरोधाः' इति ङ-पाठः। ५ 'नोऽत्र कथनेनेसः ' इति क-पाठः ।
अनेकान्त.१२