________________
८
.
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमा
(मूलम्) न च तदभावस्तदितराभावे, केनचिदबाधितत्वात् विशेषानुपपत्तेः।
तस्मादसंव्यवहार्य एव तुच्छाभाव इति न तत्र व्यतिरिक्तग्राहका.५ कारवैकल्यावसायोपायः तदतत्वभावत्वादिति परिभाव्यतामेतत्॥
(खो० व्या०) म वित्थमेवैतदित्याशक्याह-न चेत्यादि । न च-नैव तदभावः-तुच्छकल्पितव्यतिरिक्तग्राहकाकाराभावः तदितराभावे-अतुच्छाकल्पितव्यतिरिक्तग्राहकाकाराभावे ।
कुतो नेत्याह-केनचिदबाधितत्वात् तुच्छकल्पितव्यतिरिक्तग्राहकाकारभावस्य । १. एतद्भावनायैवाह-विशेषानुपपत्तेः-तुच्छकल्पितव्यतिरिक्तग्राहकाकारभावस्य ।अयं
ह्यधिकृतविज्ञानेऽप्येवंविध एव कथमेतदभावः तत्र, असति चैतदभावे कथमिदं तुच्छान्यस्वभावमिति परिभाव्यतामेतत् । यत एवं तस्मादसंव्यवहार्य एव तत्त्वचिन्तायाम् । कोऽसावित्याह-तुच्छाभाव इति । तुच्छाभावश्च परनीत्या व्यतिरिक्तग्राहकाकाराभावः । एवं न तत्र-अधिकृतविज्ञाने व्यतिरिक्त ग्राहकाकारवै१५ कल्यावसायोपायः परनीत्यैवेति निदर्शितम् । एतदेवाह-तदतत्वभावत्वात्
तस्य-अधिकृतविज्ञानस्यातत्स्वभावत्वात् , व्यतिरिक्तग्राहकाकाराभावास्वभावत्वादित्यर्थः, सतोऽन्यत्राभवतस्तदभावस्वभावत्वसिद्धेः इति परिभाव्यतामेतत् ॥
(विवरणम्) - (१०-११) अयं ह्यधिकृतविज्ञानेऽप्येवंविध एवेति । अयं-तुच्छकल्पितव्यति६० रिक्तग्राहकाकारभावः हिः-यस्मात् अधिकृतविज्ञानेऽपि-बुद्धादिसम्बन्धिनि एवम्भूत
एव-यादृशोऽर्वाग्दर्शिप्रमातृज्ञानेषु इति कथं-केन प्रकारेण तस्य-तुच्छकल्पितव्यतिरिक्तप्राहकाकारस्याभावस्तत्र-बुद्धादिज्ञाने । इदमुक्तं भवति-तुच्छकल्पितव्यतिरिक्तग्राहकाकारादन्यस्वभाव बुद्धज्ञानं तदैव भवति यदि तत्र वास्तवस्याकारस्य अभावः स्यात् ; अन्यथा तुच्छातुच्छयोर्विशेष एव न स्यादिति ॥ २५ (१६) व्यतिरिक्तग्राहकाकाराभावास्वभावत्वादिति । व्यतिरिक्तप्राहकाकारस्थाभावो व्यतिरिक्तप्राहकाकाराभावः, न स्वभावोऽस्वभावः, व्यतिरिक्तप्राहकाकाराभावोऽस्वभावो यस्य ज्ञानस्य तत् तथा तद्भावः-तत्त्वं तस्मात् ॥ .. .. (१७) सतोऽन्यत्राभवतस्तदभावस्वभावत्वसिद्धेरिति । तस्य-प्राहकाकारस्या
भावस्तदभावः तदभावः स्वभावो यस्य तत् तथा तद्भावः-तत्वं तस्य सिद्धिः-निष्पत्तिः ३. तस्मात् । कीदृशस्य तस्य ग्राहकाकारस्येत्याह-सतः-विद्यमानस्यान्यत्र-ज्ञानान्तरेऽर्वाग्दर्शिसम्बन्धिनि अभवतः अविद्यमानस्य सामर्थ्यादधिकृतविज्ञाने ॥ १ 'तस्मादसौ व्यव०' इति ङ-पाठः । २ 'तुच्छकादयन्तन्यतिरिक०' इति क-पाठः। .