________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) सदाकारशून्यं तदिति चेत्, न, ततोऽन्यखभावस्वाभावे एतत् । न च तुच्छान्यस्वभावत्वमस्य, युक्तिविरोधात्, तदभावे हि तत् तथा।
(खो० व्या०) तत्कल्पितः तस्याभवनं तस्मिन् । एतदुक्तं भवति-तस्य-व्यतिरिक्तग्राहकाकारस्य कल्पितस्य-अतात्त्विकस्य, अन्यत्र विज्ञानान्तर इति प्रक्रमः, अभवने पुनरभ्युपगम्यमाने तत्र-अधिकृतविज्ञान इति सामर्थ्यम् । किमित्याह-तदितरभवनापत्तिः सामर्थ्यादेवाधिकृतविज्ञानेऽकल्पितव्यतिरिक्तग्राहकाकारभवनापत्तिः । न कल्पिताभावोऽकल्पिततद्भावमन्तरेणेति भावनीयम् । तथाहि-कल्पितो नामासन्नभावो न १० किञ्चित् । स च यथाऽनधिकृतविज्ञाने एवमधिकृतविज्ञानेऽपि । अतो न तात्त्विकस्य तस्य व्यतिरिक्तप्राहकाकारस्साभावेऽधिकृतविज्ञाने तस्य कल्पितस्याभावः सिध्यतीति भावनीयम् । कल्पितेत्यादि । कल्पित-वास्तवौ च तौ तदाकारौ च प्रक्रमाद् व्यतिरिक्तग्राहकाकारौ चेति विग्रहस्ताभ्यां शून्यं तत्-अधिकृतं विज्ञानम् । इति चेत्, एतदाशझ्याह-नेत्यादि । नेति प्रतिषेधे । तत इति ताभ्यां कल्पितवास्तव- १५ तदाकाराभ्याम् अन्यखभावत्वाभावेऽधिकृतविज्ञानस्य एतत्-कल्पितवास्तवतदाकारशून्यत्वम् । अन्यस्वभावत्वमेवं भवतु । का नो हानिरित्याशक्याह-न चेत्यादि । न च-नैव तुच्छान्यखभावत्वं तुच्छात्-कल्पिताद् व्यतिरिक्तग्राहकाकारात् अन्यस्वभावत्वं-वस्तुनो व्यतिरिक्तत्वं अस्य-अधिकृतविज्ञानस्य । कुत इत्याहयुक्तिविरोधात् । एनमेवाह तदभाव इत्यादिना । तदभावे-तुच्छकल्पितव्यति- २० रिक्तग्राहकाकाराभावे सति यस्मात् तत्-अधिकृतविज्ञानं तथेति तुच्छान्यखभावम् ।
(विवरणम्) (९-१०) न कल्पिताभावोऽकल्पिततभावमन्तरेणेति भावनीयमिति । ननैव कल्पितस्य-व्यतिरिक्तप्राहकाकारस्य सम्बन्धी अभावोऽकल्पिसतद्भाव-पारमार्थिकग्राहकाकारभावमन्तरेण-विना भवतीति भावनीयम् । कल्पितस्य ग्राहकाकार-२५ स्थाधिकृतविज्ञाने भावेऽभ्युपगम्यमाने सामर्थ्याद् वास्तवस्य तत्र भावः स्यादिति ।।
(१८) तुच्छान्यस्वभावत्वमिति । तुच्छाद्धि प्राहकाकारादन्यस्वभावं विज्ञानं सदैव सिद्ध्यति यदि तत्र तस्य तुच्छस्याभावः-वास्तवस्य भावः स्यादिति ॥
(१८) तुन्छछात् कल्पिताद् व्यतिरिक्तग्राहकाकारादिति । ग्राहकाकारो हि भवतां मते सुच्छो गगनारविन्दप्रख्यस्ततस्तस्मात् कारणादन्यत्वं न घटतेऽधिकृत-३० विज्ञानस्य, पक्ष्यमाणयुक्तिविरोधात् ॥
१ द्रष्टव्यं ८६तम पृष्ठम् । २ 'नामाभन.' इति उ-पाठः। ३ 'अभावोऽपि कल्पितः तद्भाव' इति क-पाठः । ४ 'सकाशान्यत्वं' इति क-पाठः ।