________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पनमः (मूलम्) धानं च । किञ्च न च वस्तुस्थित्याऽपि व्यतिरिक्तग्राहकाकारशून्यत्वे सति तत् तथेति युक्तम् । एवं हि तच्छून्यत्वं तस्य स्यात्, यद्यसौ तत्र ५न भवेत्। न चान्यत्राभवतस्तत्राभवनं न्याय्यमित्यन्यत्र तत्सिद्धिः, तत्कल्पिताभवने तु तत्र तदितरभवनापत्तिः। कल्पितवास्तव
(स्त्रो० व्या०) मेव । किञ्च नेत्यादि । न च वस्तुस्थित्याऽपि न च तत्त्वनीत्याऽपि व्यतिरिक्त
ग्राहकाकारशून्यत्वे इति व्यतिरिक्तस्य ग्राहकः स एवाकारः तेन शून्यत्वं १० तस्मिन् सति तत्-विज्ञानं तथेति युक्तं-व्यतिरिक्तग्राहकाकारविकलमिति युक्तम्। कथं न युक्तमित्याह-एवं यस्मात् तच्छ्रन्यत्वं-व्यतिरिक्तग्राहकाकारशून्यत्वं तस्य-विज्ञानस्य स्यात्-भवेत् , यद्यसौ-व्यतिरिक्तग्राहकाकारः तत्र-विज्ञाने न भवेत् । न त्वित्थमेवैतदित्याशङ्कयाह-न चान्यत्र-विज्ञानान्तरेऽभवतः
असतः तत्र-अधिकृतविज्ञानेऽभवनं न्याय्यम् । न हि शशविषाणस्य क्वचिद७५ भावः, न यत्रासौ तत्र शशविषाणभावप्रसङ्गात् । इति-एवमन्यत्र-विज्ञानान्तरे
तत्सिद्धिः-व्यतिरिक्तग्राहकाकारसिद्धिः । तत्सिद्धौ चानिवारितं व्यतिरिक्तं ग्राह्यमित्यर्थः । आशङ्कान्तरनिरासायाह-तत्कल्पिताभवने तु स चासौ कल्पितश्च
(विवरणम्) (१४-१५) न हि शशविषाणस्य क्वचिदभाव इति। न नैव हि:-यस्माच्छश२. विषाणस्य-तुच्छरूपस्य कचित्-प्रतिनियते प्रदेशेऽभावः साध्यते । शशविषाणस्यात्र प्रदेशेऽभावो वर्तत इति न कचित् प्रतिपादयतीत्यर्थः । कुत इत्याह-(१५) न यत्रासौ तत्र शशविषाणभावप्रसङ्गादिति । न यत्र तु प्रदेशे असौ-खरविषाणाभावः तत्र शशविषाणस्य भावप्रसङ्गात् । प्रतिनियते प्रदेशे शशशृङ्गस्याभावे
साधिते सति प्रदेशान्तरे शशविषाणाभावस्याभावात् शशविषाणभावः स्यात् । एवमत्र २५ दान्तिकयोजना कार्या-खरविषाणप्रख्यो व्यतिरिक्तप्राहकाकारः परमते तस्य
बुद्धादिसम्बन्धिनः प्रतिनियते कापि ज्ञानेऽभावे साधयितुमुपक्रान्ते सति अन्यज्ञानेषु अर्वाग्दर्शिसम्बन्धिषु नियमाद् भावः स्यादिति । अत एवाह-(१५) अन्यत्र विज्ञानान्तरे तत्सिद्धिरिति । विज्ञानान्तरेऽर्वाग्दर्शनप्रमातृसम्बन्धिनि ।
(१७) तत्कल्पिताभवने विति । अयमभिप्रायः-अर्वाग्दर्शनप्रमातृसम्बन्धिषु ३० विज्ञानेषु यः परिकल्पितो वर्तते आकारस्तस्याभावो बुद्ध्यादिविज्ञाने साध्यते इति कदाचिद्भ्युपगमो भविष्यति परस्य ॥
१'चान्यत्रास्थाभवतः' इति ग-पाठः। २ किञ्चन चेत्यादि' इति ङ-पाठः। ३ 'भावः यन्नासौ' इति क-पाठः। ४ 'प्रदेशेऽभावः असो' इति क-पाठः। ५'बुद्धादिविज्ञाने साध्यते नियते वापि ज्ञाने' इति ख-पाठः। ६ 'कल्पितो भ(१)वर्तते' इति च-पाठः ।