________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
तत्ववादिनो भ्रान्तिबीजमपि किञ्चित्, बोधमात्रस्यैवानभ्युपगमात्, अभ्युपगमे चाभ्रान्तबोधायोगात् तस्यैव तत्त्वात् । बोधभिन्नभ्रान्तिभावे तु बाह्यसिद्धिरेव । एवं चानुभूत्यादिसिद्धे बाह्यग्राह्य- ५ भावे नास्य ग्राह्यस्यायं ग्राहकः । इति ग्राहकरूपप्रतिषेधो युक्तः, तदात्मकत्वेन ज्ञानस्यैव प्रतिषेधापत्तेः ॥
अधिकार ]
૮૧
किश्च कथं पुनरिदं व्यज्ञायि भवता यथेदं विज्ञानं व्यतिरिक्तग्राहकाकारविकलमिति ? । न तावत् तदनुभव एव निमित्तम्, तस्य वैपरीत्येन प्रवृत्तेः, आविद्वदङ्गनादिसिद्धत्वात् । वस्तुस्थित्या तत् तथेति १० तथास्वभावत्वात् ज्ञायत एवेति चेत्, तत् तथेति कुतोऽयमाप्तवादः ? प्रतिभासमानाकारशून्यतेति चापूर्वा वस्तुस्थितिस्तथास्वभावत्वाभि
( स्वो० व्या० )
एतत् - परोदितमिति । न च बोधमात्रतत्त्ववादिन:- योगाचारस्य भ्रान्तिबीजमपि किञ्चित् । कथमित्याह - बोधमात्रस्यैवानभ्युपगमात् भ्रान्तिबीज - १५ त्वेन | अभ्युपगमे च बोधमात्रस्यैव भ्रान्तिबीजत्वेन किमित्याह- अभ्रान्तबोधायोगात् । अयोगश्च तस्यैव - बोधमात्रस्य तत्त्वात् भ्रान्तिबीजत्वात् । बोधभिन्न भ्रान्तिवीजभावे तु को दोष इत्याह-वाह्यसिद्धिरेव । एवं चउक्तनीत्याऽनुभूत्यादिंसिद्धे बाह्यग्राह्यभावे किमित्याह - नास्य ग्राह्यस्यायं ग्राहकः । इति - एवं पूर्वपक्षग्रन्थे ग्राहकरूपप्रतिषेधो युक्तः । कुत इत्याह- २० तदात्मकत्वेन - बाह्यग्राह्यात्मकत्वेन ज्ञानस्यैव प्रतिषेधापत्तेः कारणात् ॥
किश्च कथं पुनरिदं व्यज्ञायि - विज्ञातं भवता यथेदं व्यतिरिक्तग्राहकाकारविकलमिति । न तावत् तदनुभव एव अधिकृतविज्ञानानुभव एव निमित्तं तद्विज्ञान इति । कुत इत्याह- तस्य - तदनुभवस्य वैपरीत्येन प्रवृत्तेःव्यतिरिक्त ग्राहकाकारत्वेन प्रवृत्तेः । प्रवृत्तिश्च आविद्वदङ्गनादिसिद्धत्वात् । २५ वस्तुस्थित्या तत्-विज्ञानं तथेति - व्यतिरिक्तग्राहकाकारविकलमिति तथास्त्रभावत्वात्-व्यतिरिक्तग्राहकाकारविकलस्वभावत्वात् ज्ञायत एव । इति चेत्, एतदाशङ्कयाह- तत् तथेति कुतोऽयमासवादः १ । तथा प्रतिभासमानाकारशून्यतेति चापूर्वा वस्तुस्थितिः । तथा तथास्वभावत्वाभिधानं व अपूर्व
१ 'स्थितिस्तत्तथाख ०' इति ग-पाठः । २ 'सिद्धेर्बाह्य ०' इति ङ-पाठः । ३ 'धानं वाऽपूर्व ० ' इति ङ-पाठः ।