________________
८४
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) भ्रान्तिबीजानुगमान यथाबोधमवसीयत इत्यपि वक्तुं शक्यत्वात्, युक्त्यनुपपत्तेरुभयत्र तुल्यत्वात् , अद्वयस्याप्यनुभवायोगात्,युक्ती५नामपि बोधात्मकत्वेन विपर्ययाशङ्कानिवृत्ता, अन्यथा प्रतिभाससम्भवात् ताभ्यस्तत्त्वव्यवस्थायोगात्, बोधमात्रस्य चायुक्तित्वात् व्यवहारोच्छेदप्रसङ्ग इति यत्किञ्चिदेतदिति । न च बोधमात्र
(खो० व्या०) भ्रान्तिबीजानुगमात्-नीलादिभ्रान्तिबीजानुगमाद्धेतोः न यथायोधमवसी१० यत इत्यपि वक्तुं शक्यत्वात्, वाङ्मात्रेण युक्त्यनुपपत्तेरुभयत्र-नील
शुक्लसंविदि अद्वये च तुल्यत्वात्। तुल्यत्वं च अद्वयस्या(प्य)नुभवायोगात् काद्यभावेन यथा शुक्लसंविदो नीलादित्वेनेति भावः । युक्तीनामपि-ग्राह्याकारादिनिराकरणपराणां बोधात्मकत्वेन हेतुना विपर्ययाशङ्कानिवृत्तः, ग्राह्याद्या
कारवबोधवैतथ्यदर्शनेनेति भावः । अत एवाह-अन्यथा प्रतिभाससम्भवात् १५ बोधस्य अद्वयतत्त्वपक्षेऽपि द्वयप्रतिभासवदित्यर्थः । एवं च सति ताभ्यः-युक्तिभ्यः तत्त्वव्यवस्थायोगाद् विपक्षाशङ्कयेति भावनीयम् । बोधमात्रस्य च-अद्वयस्य अयुक्तित्वादविकल्पत्वेन एवं व्यवहारोच्छेदप्रसङ्ग इति यत्किञ्चित्
(विवरणम्) कारभाजि विज्ञाने समनुभूयमानेऽपि भ्रान्तिबीजानुगंमाग्न यथाबोधमवसीयत २० इत्युच्यते तदा एतदपि वक्तुं शक्यत एव यथा शङ्खादौ पदार्थे निर्विकल्पकज्ञानेन
शुक्लतयाऽनुभूतेऽपि पश्चात् काचकामलादिभ्रान्तिबीजानुगमसद्भावात् पीत्याद्यध्यवसायो जायते, एवमसत्कल्पनया शुक्लतया नीलादावनुभूतेऽपि निर्विकल्पज्ञानेन योऽयं नीलाद्यवसायो जायते स भ्रान्तिबीजानुगैमसद्भावात् ॥
(१३-१४) ग्राह्याद्याकारवबोधवैतथ्यदर्शनेनेति । ग्राह्याद्याकारो विद्यते यस्य २५ असौ ग्राह्याद्याकारवान् , स चासौ बोधश्च ग्राह्याद्याकारबोधस्तस्य वैतथ्यं-मिथ्यारूपता
तस्य दर्शनम्-अवलोकनम् । ग्राह्याद्याकारयुक्तो हि बोधो सिध्यारूपो भवतां मते विलोकितः, अतो ग्राह्याद्याकारनिराकरणपरायणा युक्तयोऽपि मिथ्यारूपा भवन्त्विति ।।
१ 'कर्तुयभावेन' इति उ-पाठः। २ 'गमाद् यथा.' इति क-पाठः। ३ 'योज्यं नीला.' इति क-पाठः। ४ 'गमाद् भावात्' इति ख-पाठः। ५ भवन्ति । न हि इति ख-पाठः।