________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
तावद् विज्ञानस्य व्यतिरिक्तं परमार्थतो ग्राथमस्ति' इत्ययुक्तम् , तस्यैव ग्राह्यत्वात्,तथाऽनुभूते, अव्यस्य चाननुभवात्,अनुभवे वा सर्वेषां तत्त्वदर्शितैव स्यात् त्वनीतितः 'तथा चायनमुक्ताः स्युर्देहिनः' ५ इत्युक्तम् । स्यादेतदद्वयमेव बोधरूपं खसंवित्सिद्धम् । न च सर्वेषां तत्त्वदर्शिताप्रसङ्गो यतो गृहीतेऽपि तस्मिन्निरंशत्वादद्वये बोधरूपे भ्रान्तिबीजानुगमान्न यथाबोधमद्वयावसायो जायते, ततो गृहीतमपि तदगृहीतकल्पमित्यननुभूतिर्न तत्त्वत इति। नैतदेवम् , कल्पनामात्रत्वात् सदाऽद्वयाननुभूतेः व्यवसायाभावात् , तथापि तत्-१० कल्पनेऽतिप्रसङ्गात्, नीलादेरप्यतत्त्वापत्तेः शुक्लादिखसंविद्वत् तद्
(खो० व्या०) तावद् विज्ञानस्य व्यतिरिक्तं परमार्थतो प्राथमस्तीति एतत् पूर्वपक्षोतमयुक्तम् । कुत इत्याह-तस्यैव-एकानेकात्मकस्य नीलादेर्विज्ञानव्यतिरिक्तस्य ग्राह्यत्वात् । ग्राह्यत्वं च तथाऽनुभूतेबहिर्मुखावभासतया अवयस्य चाननु-१५ . भवात् विज्ञानस्य अनुभवे वाऽद्वयस्य सर्वेषां तत्त्वदर्शितव स्यात् प्रमाणां त्वन्नीतितः। तथा चायनमुक्ताः स्युर्देहिन इत्युक्तं प्राक् । स्यादेतदद्वयमेव बोधरूपं स्वसंवित्सिद्धम् । न च सर्वेषां-प्रमातॄणां तत्त्वप्रदर्शिताप्रसङ्गः । कथमित्याह-यतो गृहीतेऽपि तस्मिन्निरंशत्वात् कारणात् अद्वये बोधरूपे भ्रान्तिबीजानुगमात् हेतोः न यथाबोधं-यथा बोधस्त- २० त्वेन तथाऽद्वयावसाय:-अद्वयनिश्चयो जायते, ततो गृहीतमपि तत्-अद्वयमगृहीतकल्पम् । इति एवं अननुभूतिरद्वयस्य न तत्त्वत इति, तत्त्वेन त्वनुभूतिरेव । एतदाशझ्याह-नैतदेवम् । कुत इत्याह-कल्पनामात्रत्वात् । कल्पनामात्रत्वं च सदाऽद्वयाननुभूतेः कारणात् । अननुभूतिश्च व्यवसायाभावात् , निश्चयाभावादित्यर्थः । तथापि-एवमपि निश्चयाभावेऽपि तत्कल्पने-२५ अद्वयकल्पने किमित्याह-अतिप्रसङ्गात् । एनामेवाह-नीलादेरपि-बोधादितत्त्वस्य अतत्त्वापत्तेः । आपत्तिश्च शुक्लादिखसंविद्वदिति निदर्शनम् । तद्
(विवरणम्) (२७) शुक्लादिस्वसंविद्वदिति निदर्शनमिति। यदि हि प्राञ्जलवृत्त्या प्राद्यप्राहका१ द्रष्टव्यं ८१तम पृष्ठम् । २८०तमे पृष्ठे। ३ 'स्यादेतद् द्वयः' इति क-पाठः । ४ 'तदाऽद्वयानुभूतेः' इति ग-पाठः। ५ 'शुक्तादिख०' इति क-पाठः। ६८१तमे पृष्ठे। ७ प्रमातृगोत्व.' इति क-पाठः। ८८०तमे पृछे ।