________________
अनेकान्तजयपताकाख्यं प्रकरणम् [ पञ्चमः
(मूलम्) रूपं खसंवेदनमात्रं ग्राहकशब्देनोच्यते । न हि बोधरूपं परस्परापेक्षाप्रकल्पितम्, खहेतोरेव तथोत्पन्नत्वात् । तदेव तु बोधरूपं ५ स्वसंवेदनमात्रे स्थितं यथोक्तेन ग्राह्यग्राहकद्वयेन रहितत्वादद्वयमित्युच्यते । तथा चोक्तम्
"नीलपीतादि यत् ज्ञानाद् बहिर्वदेवभासते। तन्न सत्यमतो नास्ति विज्ञेयं तत्त्वतो बहिः॥ तदपेक्षया च संवित्तेमता या कर्तृरूपता।
साऽप्यतत्त्वमतः संविदद्वैयेति विभाव्यते ॥ इत्यादि । एतदप्यसत्, प्रायो दत्तोत्तरत्वात् । तथाहि-नीलादेरेकानेकविचाराक्षमत्वमसिद्धम् , जात्यन्तरत्वेनैकानेकात्मकत्वात् तथापरिणतिखभावत्वादित्युक्तप्रायम्। इत्थं कथं तदतत्वमिति ? 'अतो न
(खो० व्या) १५ कर्तृ-कर्मणोः व्यवस्थानादिति । ततश्चैतद् व्यतिरिक्तग्राह्यग्रोहकमेव रूपं ग्राहक
शब्देनोच्यते, न तु बोधरूपम् । किविशिष्टमित्याह-स्वसंवेदनमात्रं ग्राहकशब्देनोच्यते कस्यचिद् ग्राहकमिति । अत एवाह-न हि बोधरूपं परस्परापेक्षाप्रकल्पितं प्रवर्तते। कुत इत्याह-वहेतोरेव तस्य बोधरूपस्य तथोत्पन्नत्वात्बोधरूपतयोत्पन्नत्वात् । तदेव तु बोधरूपं खसंवेदनमात्रेस्थितं तत्त्वेन यथो२० क्तेन ग्राह्यग्राहकद्वयेन व्यतिरिक्तग्राह्याद्यपेक्षारूपेण रहितत्वात् कारणाद.
द्वयमित्युच्यते। तथा चोक्तं न्यायविदा वार्तिके-नीलपीतादि यत्वस्तु ज्ञानाद् बहिर्वदवभासते तन्न सत्यमुक्तनीत्या । अतो नास्ति विज्ञेयं तत्त्वतः-परमार्थेन बाहिरिति । तदपेक्षया च-बहिर्विज्ञेयापेक्षया च
संवित्तः-ज्ञानस्य मता या कर्तृरूपता परेषां साऽप्यतत्त्वम् , तदभावादेव । २५ अतः संविदद्वयेति विभाव्यते इत्यादि । एवं पराभिप्रायमाशङ्याह-एतदप्य. सत् । कुत इत्याह-प्रायो दत्तोत्तरत्वात् तेन तेन प्रकारेण । तथाहि-नीलादेः वस्तुनः एकानेकविचाराक्षमत्वमसिद्धम् । कथमित्याह-जात्यन्तरत्वेन एकानेकेषां एकानेकात्मकत्वान्नीलादेः । एतदेवाह-तथापरिणतिखभावस्वादशवादीनामित्याद्युक्तमायं-प्रायेणोक्तं अवयविनिरूपणायाः। इत्थं कथं तत्३० नीलादि अतत्त्वम्-अवस्तु १ नैवावस्तु इत्यर्थः । अत:-अस्मात् कारणात् न
१ अतः परं 'बोधरूप पर्यन्तकः पाठो ग-प्रतौ नास्ति । २ अनुष्टुप् । ३ 'येवेति भाव्यते' इति क-पाठः। ४ अनुष्टुप् । ५ 'ग्राहकमिव' इति ड-पाठः। ६ 'प्रकल्पितं वर्तते' इति - पाठः। 'वस्तु विज्ञानाद्' इति उ-पाठः। ८'विभाज्यते नीतेत्यादि' इति उ-पाठः।