________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) - स्यादेतज्जाड्याद् द्वयानभिज्ञैरिदमभिधीयते, यतो न ग्राहकशब्दनान्तर्बोधरूपं हर्षविषादाद्यनेकविवर्त खसंविदितमुच्यते येन तस्याप्यभावः स्यात् किन्तु यदेतद् विज्ञानादु बहिरिव नीलादि भासते, ५ तदेकानेकविचाराक्षमत्वान्न तत्त्वम् , अतो न तावद् विज्ञानस्य व्यतिरिक्तं परमार्थतो ग्राह्यमस्ति, तदभावाच तदपेक्षाप्रकल्पितं बोधरूपस्य यत् कर्तृरूपम्-अस्य ग्राह्यस्यायं ग्राहक इति तदिह ग्राहक रूपं-तन्नास्तीत्युच्यते, कर्तृ-कर्मणोः परस्परापेक्षाप्रकल्पितत्वात् । अत एवोक्तम्-"परस्परापेक्षया तयोर्व्यवस्थानात्" इति । न तु बोध-१०
(खो० व्या०) अविद्यमानग्राह्याकारायव्यतिरेकेण न कार्यमिति-न ह्यसदुत्पद्यते भवतामिति ॥
स्यादेतत्-अथैवं मन्यसे जाड्यात् हेतोः द्वयानभिज्ञैरिदम्-अनन्तरोदितमभिधीयते। कथमित्याह-यतो न ग्राहकशब्देनान्तर्बोधरूपं बहिर्मुखाव- . भासशून्यं हर्षविषादाद्यनेकविवर्त्त प्रवाहचित्रं स्वसंविदितं तथाऽनुभूतेः । उच्यते येन तस्याप्यभावः स्याद् ग्राहकनिषेधेन, किन्तु यदेतद् विज्ञानाद् पहिरिव-न तत्त्वतो बहिनीलादि भासते वस्त्विव तत्-बाह्यं एकानेकविचाराक्षमत्वात् अवयव्यण्वाद्यपेक्षया न तत्त्वं-न वस्तु, अत:-तदतत्त्वात् न तावद् विज्ञानस्य व्यतिरिक्तम्-अन्यत् परमार्थतो ग्राघमस्ति .. तदभावाच-व्यतिरिक्तग्राह्याभावाच्च तदपेक्षाप्रकल्पितं-व्यतिरिक्तग्राह्यापेक्षा-२० प्रकल्पितं बोधरूपस्य-वसंविदितस्य यत् कर्तृरूपं तस्य विशिष्टकर्मताकारि । एतदेवाह-अस्य ग्राह्यस्यायं ग्राहका-विज्ञानकार इति तदिह ग्राहकं रूपंविज्ञानगतं तन्नास्तीत्युच्यतेऽस्माभिः । कुत इत्याह-कर्तृ-कर्मणोः परस्परापेक्षाप्रकल्पितत्वात् , विशिष्टकर्मापेक्षया कर्तृत्वं विशिष्टकर्तृत्वापेक्षया च कर्मत्वमिति । अत एवोक्तं न्यायविदा-परस्परापेक्षया-उदितस्वरूपया तयोः-२५
(विवरणम्) (१२) अविद्यमानग्राह्याकाराद्यव्यतिरेकेणेति । ग्राह्यत्वप्राहकत्वलक्षणौ हि आकारौ एकान्तेन तुच्छरूपौ भवतां मते, ततस्तयोरव्यतिरिक्तं संज्ज्ञानमपि खरविषाणप्रख्यमेवातः कथं तत् कार्य स्यात् ? ॥
(१२) न ह्यसदुत्पद्यते भवतामिति । व्योमारविन्दादि नोत्पद्यत इत्यर्थः॥ ३० १ 'ननु' इति ग-पाठः। २ 'अन्यतरमार्थतो' इति उ-पाठः । ३ 'सज्ञान०' इति च-पाठः ।
अनेकान्त० ११