________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
ग्राह्यग्राहकाकारविविक्तं यदि, तर्हि ग्राह्यग्राहकद्वयमपि नास्ति किमपरं विज्ञानस्यावि(व)शिष्टं यत्तस्य तत्त्वं स्यात्? न हि ग्राह्यग्राहका५कारविविक्तमपरं रूपमाग्दर्शिभिः संवेद्यते । संवेदने वा तत्त्व
दर्शित्वं स्यात्, तथा चायनमुक्ताः स्युर्देहिनः । नाप्यनुमानात् तस्य निश्चयः । तथाहि-न स्वभावलिङ्गजं तंत्रानुमानं सम्भवति, तत्खभावस्यैव साध्यत्वात् । नापि कार्यलिङ्गजम्, अद्वयेन रूपेण मत्यक्षानुपलम्भसाधनस्य कार्यकारणभावस्यासिद्धेः। नापि कार्यव्य१० तिरेकलक्षणात् कार्यकारणभावसिद्धिरस्ति, कार्यस्यैवासिद्धेः। तथा
हि-योगाचारस्य तदेवाद्वयं कार्य तंच न प्रमाणसिद्धम् । यच्च द्वयरूपं भासते तच शशविषाणप्रख्यत्वात् न कार्यमिति ॥
(स्वो० च्या०) होत्यादिना । तथाहीति पूर्ववत् । अनुभयरूप(मद्वय)मुच्यते । किमुक्तं १५ मवति? ग्राह्यग्राहकाकारविविक्तम् । एतदाशक्याह-यदि तीत्यादि । यदि तर्हि ग्राह्यग्राहकद्वयमपि नास्ति रूपद्वयं किमपरं विज्ञानस्यावि(व)शिष्टं यत् तस्य तत्त्वं स्यात् । न हि ग्राह्यग्राहकाकारविविक्तमपरं रूपमागदार्शभिः-प्रमातृभिः संवेद्यते। संवेदने वा परस्य रूपस्य तत्वदर्शित्वं स्यात् । तथा च-एवं च अप्रयत्नमुक्ताः स्युर्देहिना, नाप्यनुमानात् तस्य २. निश्चयः अद्वयस्य रूपस्य । तथाहि-न खभावलिङ्गजं तन्त्र-अद्वयरूपेऽनुमानं
सम्भवति । कुत इत्याह-तत्वभावस्यैव-अद्वयस्वभावस्यैव साध्यत्वात्, साधनत्वानुपपत्तेरित्यर्थः। नापि कार्यलिङ्गजम्, 'तत्रानुमानं सम्भवति' इति वर्तते । कुत इत्याह-अद्वयेन रूपेण सह प्रत्यक्षानुपलम्भसाधनस्य कार्यकारण
भावस्यासिद्धेः कारणात् । नापि कार्यव्यतिरेकलक्षणात्-विज्ञानाचक्षुषीव २५ कार्यकारणभावसिद्धिरस्ति । कुत इत्याह-कार्यस्यैवासिद्धेः । एनामेवाह तथाहीत्यादिना । तथाहीत्युपप्रदर्शने। योगाचारस्य-विज्ञानवादिनः तदेव-विज्ञानमद्वयं ग्राह्यग्राहकाकारद्वयरहितं कार्यं तच न प्रमाणसिद्धम् , द्वयत्वादेव । यच्च विज्ञानं द्वयरूपं ग्राह्यग्राहकाकारवद् भासते तच्च शशविषाणप्रख्यत्वात्
(विवरणम्) ३० (२४) कार्यव्यतिरेकलक्षणादिति । कार्यान्यथानुपपत्तिलक्षणात् ॥
१ रूपमाग्दर्शिनेः संवेद्यते' इत्यशुद्धः क-पाठः । २ 'तत्तानुमान' इति ग-पाठः। ३ 'तच प्रमाण.' इति ग-पाठः।