________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम् ७९
(मूलम् ) उभयरूपत्वे विरोधः, एकस्यानेकत्वायोगात् । तथाहि-यदि ग्राह्यरूपं तत् कथं ग्राहकरूपम् । ग्राहकरूपं चेत्, कथं ग्राह्यरूपम् ? इतरेतरात्मकत्वेन तत्खरूपाभावः ॥
अनुभयरूपत्वे तु स्फुटमसत्त्वम्, तदितरलक्षणासिद्धेः । किं हि तत् सद् यद् ग्राह्यरूपं ग्राहकरूपं च न भवति ? को वा तत्प्रतिपत्त्युपायः, परं प्रति प्रतिपादनोपायो वा ? न कश्चिदन्यो ध्यानध्यसामादिति । स्यादेतदनभ्युपगतोपालम्भ एषा, चरमपंक्षेऽस्यैवास्माभिरिष्टे, तस्य चान्यार्थत्वात्। तथाहि-अनुभयरूपमद्वयमुच्यते ३०
(स्वो० व्या०) पत्तिरेव । इति एवं सूक्ष्मधिया भावनीयमेतत्-सूक्ष्माभोगगम्यमेतत् वस्तुतो वाचामगोचरः ॥
पक्षान्तरमधिकृत्याह-उभयरूपत्वे, प्रक्रमाद् ग्राह्यग्राहकोमयरूपत्वे विज्ञानस्य अभ्युपगम्यमाने विरोधः । कथमित्याह-एकस्यानेकत्वायोगात्, न टेकमनेकं १५ युज्यत इति । एतद्भावनायैवाह-तथाहीत्यादि । तथाहीति पूर्ववत् । यदि ग्राह्यरूपं तत्-विज्ञानं कथं ग्राहकरूपम् ? ग्राहकरूपं चेत् कथं ग्राह्यरूपम् ? इतरेतरात्मकत्वेन हेतुना तत्स्वरूपाभावः तस्य-विज्ञानस्य स्वरूपाभावः ॥
चरम विकल्पमधिकृत्याह-अनुभयरूपत्वे तु विज्ञानस्य ग्राह्यग्राहकरूपापेक्षया । किमित्याह-स्फुटमसत्वम् । कुत इत्याह-तदितरलक्षणासिद्धे-ग्रामग्राहका- २० भ्यामन्यलक्षणासिद्धेः सत्त्वस्य ! एतदेव भावयति किं हि तदित्यादिना । किं हि तत्वस्तु सदस्ति यद् ग्राह्यरूपं ग्राहकरूपं च न भवति? नैव तत् सदित्यर्थः । को वा तत्प्रतिपत्त्युपाया ग्राह्यादिरूपाभावेन कश्चित् परं प्रति प्रतिपादनोपायोवा क इति न कश्चिदन्योध्यान्ध्यसामर्थ्यात्-अज्ञानविजृम्भितादिति । स्यादेतदनभ्युपगंतोपालम्भ एषः-अनन्तरोदितः, चरमपंक्षेऽ- २५ स्यैवास्माभिरिष्टेस्तस्य-चरमपक्षस्य अन्यार्थत्वात् । अन्यार्थत्वमेवाह तथा
(विवरणम्) (१८) तस्य विज्ञानस्य स्वरूपाभाव इति । यदि हि प्राय प्राहक चाभ्युपगम्यते ज्ञानं तदा ग्राह्यत्वेन ग्राहकत्वं बाध्यते, ग्राहकत्वेन च ग्राह्यत्वं बाध्यत इति स्वरूपाभावः प्राप्नोति ज्ञानस्य ॥
१'वा' इति ग-पाठः। २ 'पादितोपायो' इति क-पाठः । ३ 'पक्षस्यैवा' इति ग-पाठः । ४'तस्माच्चान्या.' इति ग-पाठः। ५'रूपं वा न' इति क-पाठः। ६ 'गतोपलम्भ०' इति रु-पाठः। 'पक्षस्यैवा०' इति ङ-पाठः। ८ 'ज्ञानस्य तस्य विज्ञानस्य स्वरूपाभाव इति । कार्यान्यथा' इति ख-पाठः ।
E